Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
बृहदश्व उवाच
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारतअथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ॥१॥
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितःकिं च तत्र मया कार्यं कथयध्वं यथातथम् ॥२॥
एवमुक्ते नैषधेन मघवान्प्रत्यभाषतअमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥३॥
अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिःशरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ॥४॥
स वै त्वमागतानस्मान्दमयन्त्यै निवेदयलोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः ॥५॥
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमःतेषामन्यतमं देवं पतित्वे वरयस्व ह ॥६॥
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत्एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥७॥
देवा ऊचुःकरिष्य इति संश्रुत्य पूर्वमस्मासु नैषधन करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ॥८॥
बृहदश्व उवाच
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत्सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥९॥
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषतजगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥१०॥
ददर्श तत्र वैदर्भीं सखीगणसमावृताम्देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥११॥
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम्आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥१२॥
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम्सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥१३॥
ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाःआसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥१४॥
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताःन चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ॥१५॥
अहो रूपमहो कान्तिरहो धैर्यं महात्मनःकोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ॥१६॥
न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचनतेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ॥१७॥
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणीदमयन्ती नलं वीरमभ्यभाषत विस्मिता ॥१८॥
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धनप्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥१९॥
कथमागमनं चेह कथं चासि न लक्षितःसुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥२०॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच हनलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥२१॥
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमःतेषामन्यतमं देवं पतिं वरय शोभने ॥२२॥
तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितःप्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ॥२३॥
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैःएतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ॥२४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 52

0
Adhyaya 52Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0