Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
बृहदश्व उवाच
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥१॥
अहं चैव हि यच्चान्यन्ममास्ति वसु किंचनसर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर ॥२॥
हंसानां वचनं यत्तत्तन्मां दहति पार्थिवत्वत्कृते हि मया वीर राजानः संनिपातिताः ॥३॥
यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानदविषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥४॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच हतिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥५॥
येषामहं लोककृतामीश्वराणां महात्मनाम्न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥६॥
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छतित्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥७॥
ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिताप्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥८॥
अस्त्युपायो मया दृष्टो निरपायो नरेश्वरयेन दोषो न भविता तव राजन्कथंचन ॥९॥
त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाःआयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥१०॥
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वरवरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥११॥
एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पतेआजगाम पुनस्तत्र यत्र देवाः समागताः ॥१२॥
तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराःदृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् ॥१३॥
देवा ऊचुःकच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिताकिमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥१४॥
नल उवाच
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥१५॥
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरःऋते तां पार्थिवसुतां भवतामेव तेजसा ॥१६॥
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितःविस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः ॥१७॥
वर्ण्यमानेषु च मया भवत्सु रुचिराननामामेव गतसंकल्पा वृणीते सुरसत्तमाः ॥१८॥
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराःत्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः ॥१९॥
तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तमएवं तव महाबाहो दोषो न भवितेति ह ॥२०॥
एतावदेव विबुधा यथावृत्तमुदाहृतम्मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥२१॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 53

0
Adhyaya 53Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0