Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाःप्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥१॥
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य तेययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥२॥
ततः सरस्वतीकूले समेषु मरुधन्वसुकाम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥३॥
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजेअन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥४॥
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसःजगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥५॥
ततो यात्वा विदुरः काननं त;च्छीघ्रैरश्वैर्वाहिना स्यन्दनेनददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥६॥
ततोऽपश्यद्विदुरं तूर्णमारा;दभ्यायान्तं सत्यसंधः स राजाअथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ॥७॥
कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयातिकच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ॥८॥
समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम्गाण्डीवे वा संशयिते कथंचि;द्राज्यप्राप्तिः संशयिता भवेन्नः ॥९॥
तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एवतैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् ॥१०॥
समाश्वस्तं विदुरं ते नरर्षभा;स्ततोऽपृच्छन्नागमनाय हेतुम्स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ॥११॥
विदुर उवाच
अवोचन्मां धृतराष्ट्रोऽनुगुप्त;मजातशत्रो परिगृह्याभिपूज्यएवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि ॥१२॥
मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैवतद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ॥१३॥
परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयःयथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ॥१४॥
न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टाब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥१५॥
ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैतियथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ॥१६॥
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहिनाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा ॥१७॥
सोऽहं त्यक्तो धृतराष्ट्रेण राजं;स्त्वां शासितुमुपयातस्त्वरावान्तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥१८॥
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यःसं वर्धयन्स्तोकमिवाग्निमात्मवा;न्स वै भुङ्क्ते पृथिवीमेक एव ॥१९॥
यस्याविभक्तं वसु राजन्सहायै;स्तस्य दुःखेऽप्यंशभाजः सहायाःसहायानामेष संग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥२०॥
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैःआत्मा चैषामग्रतो नातिवर्ते;देवंवृत्तिर्वर्धते भूमिपालः ॥२१॥
युधिष्ठिर उवाच
एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तःयच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥२२॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 6

0
Adhyaya 6Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0