Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
दमयन्त्युवाचमां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि तेनरवीरस्य वै तस्य नलस्यानयने यत ॥१॥
बृहदश्व उवाच
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिताबाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत् ॥२॥
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदाहाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥३॥
ततो भीमं महाराज भार्या वचनमब्रवीत्दमयन्ती तव सुता भर्तारमनुशोचति ॥४॥
अपकृष्य च लज्जां मां स्वयमुक्तवती नृपप्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ॥५॥
तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनःप्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥६॥
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाःदमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् ॥७॥
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचःब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ॥८॥
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो ममउत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥९॥
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणीदह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥१०॥
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिवप्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च ॥११॥
एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयिवायुना धूयमानो हि वनं दहति पावकः ॥१२॥
भर्तव्या रक्षणीया च पत्नी हि पतिना सदातन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥१३॥
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदासंवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥१४॥
स कुरुष्व महेष्वास दयां मयि नरर्षभआनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् ॥१५॥
एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चनस नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते ॥१६॥
यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरःतदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ॥१७॥
यथा च वो न जानीयाच्चरतो भीमशासनात्पुनरागमनं चैव तथा कार्यमतन्द्रितैः ॥१८॥
यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत्यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥१९॥
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम्नलं मृगयितुं राजंस्तथा व्यसनिनं तदा ॥२०॥
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान्अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः ॥२१॥
तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पतेश्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् ॥२२॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 67

0
Adhyaya 67Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0