Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
बृहदश्व उवाच
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥१॥
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्नादयन्रथघोषेण सर्वाः सोपदिशो दश ॥२॥
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुःश्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ॥३॥
दमयन्ती च शुश्राव रथघोषं नलस्य तम्यथा मेघस्य नदतो गम्भीरं जलदागमे ॥४॥
नलेन संगृहीतेषु पुरेव नलवाजिषुसदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥५॥
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाःहयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ॥६॥
ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथाप्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ॥७॥
दमयन्त्युवाचयथासौ रथनिर्घोषः पूरयन्निव मेदिनीम्मम ह्लादयते चेतो नल एष महीपतिः ॥८॥
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदिअसंख्येयगुणं वीरं विनशिष्याम्यसंशयम् ॥९॥
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम्प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ॥१०॥
यदि मां मेघनिर्घोषो नोपगच्छति नैषधःअद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ॥११॥
यदि मां सिंहविक्रान्तो मत्तवारणवारणःनाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ॥१२॥
न स्मराम्यनृतं किंचिन्न स्मराम्यनुपाकृतम्न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥१३॥
प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियःरहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ॥१४॥
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥१५॥
बृहदश्व उवाच
एवं विलपमाना सा नष्टसंज्ञेव भारतआरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥१६॥
ततो मध्यमकक्षायां ददर्श रथमास्थितम्ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥१७॥
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात्हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥१८॥
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपःउपतस्थे महाराज भीमं भीमपराक्रमम् ॥१९॥
तं भीमः प्रतिजग्राह पूजया परया ततःअकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥२०॥
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारतनाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥२१॥
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमःराजानं राजपुत्रं वा न स्म पश्यति कंचननैव स्वयंवरकथां न च विप्रसमागमम् ॥२२॥
ततो विगणयन्राजा मनसा कोसलाधिपःआगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ॥२३॥
राजापि च स्मयन्भीमो मनसाभिविचिन्तयत्अधिकं योजनशतं तस्यागमनकारणम् ॥२४॥
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम्अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ॥२५॥
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः ॥२६॥
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवःराजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥२७॥
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपेबाहुको रथमास्थाय रथशालामुपागमत् ॥२८॥
स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतःस्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥२९॥
दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम्सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥३०॥
चिन्तयामास वैदर्भी कस्यैष रथनिस्वनःनलस्येव महानासीन्न च पश्यामि नैषधम् ॥३१॥
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षितातेनास्य रथनिर्घोषो नलस्येव महानभूत् ॥३२॥
आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथाततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥३३॥
एवं वितर्कयित्वा तु दमयन्ती विशां पतेदूतीं प्रस्थापयामास नैषधान्वेषणे नृप ॥३४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 71

0
Adhyaya 71Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0