Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
धौम्य उवाच
अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशियानि तत्र पवित्राणि पुण्यान्यायतनानि च ॥१॥
प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनीप्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥२॥
निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेःजज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥३॥
वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभःदिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥४॥
तस्य शैलस्य शिखरे सरस्तत्र च धीमतःप्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् ॥५॥
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वतेपुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते ॥६॥
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्विश्वामित्रनदी पारा पुण्या परपुरंजय ॥७॥
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजःपपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ॥८॥
तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतःबहुमूलफलो वीर असितो नाम पर्वतः ॥९॥
आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिरच्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डवतत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो ॥१०॥
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः ॥११॥
ततः पुण्यतमा राजन्सततं तापसायुताकेतुमाला च मेध्या च गङ्गारण्यं च भूमिपख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥१२॥
पितामहसरः पुण्यं पुष्करं नाम भारतवैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥१३॥
अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौपुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर ॥१४॥
मनसाप्यभिकामस्य पुष्कराणि मनस्विनःपापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते ॥१५॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 87

0
Adhyaya 87Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0