Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
युधिष्ठिर उवाच
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तमतथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः ॥१॥
परांश्च निर्गुणान्मन्ये न च धर्मरतानपिते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना ॥२॥
लोमश उवाच
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचनयदधर्मेण वर्धेरन्नधर्मरुचयो जनाः ॥३॥
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यतिततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥४॥
मया हि दृष्टा दैतेया दानवाश्च महीपतेवर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ॥५॥
पुरा देवयुगे चैव दृष्टं सर्वं मया विभोअरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥६॥
तीर्थानि देवा विविशुर्नाविशन्भारतासुराःतानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥७॥
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायतक्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् ॥८॥
तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान्क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततःलक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥९॥
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसःदैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥१०॥
तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथादर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ॥११॥
मानाभिभूतानचिराद्विनाशः प्रत्यपद्यतनिर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः ॥१२॥
देवास्तु सागरांश्चैव सरितश्च सरांसि चअभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च ॥१३॥
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डवप्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥१४॥
एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशःतीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥१५॥
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजःपुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः ॥१६॥
यथैव हि नृगो राजा शिबिरौशीनरो यथाभगीरथो वसुमना गयः पूरुः पुरूरवाः ॥१७॥
चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च तेतीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् ॥१८॥
अलभन्त यशः पुण्यं धनानि च विशां पतेतथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् ॥१९॥
यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवःमुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ॥२०॥
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे ॥२१॥
धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताःनचिराद्विनशिष्यन्ति दैत्या इव न संशयः ॥२२॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 92

0
Adhyaya 92Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0