Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
लोमश उवाच
यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामितितदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥१॥
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे ॥२॥
एवमुक्तः स मुनिना महीपालो विचेतनःप्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत ॥३॥
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिःमहर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ॥४॥
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्लोपामुद्राभिगम्येदं काले वचनमब्रवीत् ॥५॥
न मत्कृते महीपाल पीडामभ्येतुमर्हसिप्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ॥६॥
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मनेलोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते ॥७॥
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषतमहार्हाण्युत्सृजैतानि वासांस्याभरणानि च ॥८॥
ततः सा दर्शनीयानि महार्हाणि तनूनि चसमुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ॥९॥
ततश्चीराणि जग्राह वल्कलान्यजिनानि चसमानव्रतचर्या च बभूवायतलोचना ॥१०॥
गङ्गाद्वारमथागम्य भगवानृषिसत्तमःउग्रमातिष्ठत तपः सह पत्न्यानुकूलया ॥११॥
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदाअगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः ॥१२॥
ततो बहुतिथे काले लोपामुद्रां विशां पतेतपसा द्योतितां स्नातां ददर्श भगवानृषिः ॥१३॥
स तस्याः परिचारेण शौचेन च दमेन चश्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥१४॥
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनीतदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ॥१५॥
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दतया तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ॥१६॥
यथा पितुर्गृहे विप्र प्रासादे शयनं ममतथाविधे त्वं शयने मामुपैतुमिहार्हसि ॥१७॥
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥१८॥
अगस्त्य उवाच
न वै धनानि विद्यन्ते लोपामुद्रे तथा ममयथाविधानि कल्याणि पितुस्तव सुमध्यमे ॥१९॥
लोपामुद्रोवाचईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वरक्षणेन जीवलोके यद्वसु किंचन विद्यते ॥२०॥
अगस्त्य उवाच
एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मेयथा तु मे न नश्येत तपस्तन्मां प्रचोदय ॥२१॥
लोपामुद्रोवाचअल्पावशिष्टः कालोऽयमृतौ मम तपोधनन चान्यथाहमिच्छामि त्वामुपैतुं कथंचन ॥२२॥
न चापि धर्ममिच्छामि विलोप्तुं ते तपोधनएतत्तु मे यथाकामं संपादयितुमर्हसि ॥२३॥
अगस्त्य उवाच
यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितःहन्त गच्छाम्यहं भद्रे चर काममिह स्थिता ॥२४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 95

0
Adhyaya 95Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0