Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Virata Parva
कीचक उवाच
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी ममस्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् ॥१॥
सुवर्णमालाः कम्बूश्च कुण्डले परिहाटकेआहरन्तु च वस्त्राणि कौशिकान्यजिनानि च ॥२॥
अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम्एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् ॥३॥
द्रौपद्युवाचअप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् ॥४॥
कीचक उवाच
अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् ॥५॥
वैशंपायन उवाच
इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत्सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम्सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥६॥
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत्अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् ॥७॥
ततो योऽसौ तदार्केण राक्षसः संनियोजितःस कीचकमपोवाह वातवेगेन भारत ॥८॥
स पपात ततो भूमौ रक्षोबलसमाहतःविघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥९॥
तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौअमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् ॥१०॥
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनःदन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ॥११॥
अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट्प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् ॥१२॥
सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत्अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ॥१३॥
आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम्दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥१४॥
द्रौपद्युवाचयेषां वैरी न स्वपिति पदा भूमिमुपस्पृशन्तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥१५॥
ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनःतेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥१६॥
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम्तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥१७॥
ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनःतेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥१८॥
सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु येतेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥१९॥
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ॥२०॥
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः ॥२१॥
क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्ततेन परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ॥२२॥
मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम्यः पश्यन्मां मर्षयति वध्यमानामनागसम् ॥२३॥
न राजन्राजवत्किंचित्समाचरसि कीचकेदस्यूनामिव धर्मस्ते न हि संसदि शोभते ॥२४॥
न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचनसभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ॥२५॥
नोपालभे त्वां नृपते विराट जनसंसदिनाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिकेसभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् ॥२६॥
विराट उवाच
परोक्षं नाभिजानामि विग्रहं युवयोरहम्अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम ॥२७॥
वैशंपायन उवाच
ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन्साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् ॥२८॥
सभ्या ऊचुःयस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणापरो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥२९॥
वैशंपायन उवाच
एवं संपूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदःयुधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् ॥३०॥
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् ॥३१॥
भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयःशुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥३२॥
मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तवतेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥३३॥
अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसिविघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदिगच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ॥३४॥
द्रौपद्युवाचअतीव तेषां घृणिनामर्थेऽहं धर्मचारिणीतस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता ॥३५॥
वैशंपायन उवाच
इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम्केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा ॥३६॥
शुशुभे वदनं तस्या रुदन्त्या विरतं तदामेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ॥३७॥
सुदेष्णोवाचकस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभनेकस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् ॥३८॥
द्रौपद्युवाचकीचको मावधीत्तत्र सुराहारीं गतां तवसभायां पश्यतो राज्ञो यथैव विजने तथा ॥३९॥
सुदेष्णोवाचघातयामि सुकेशान्ते कीचकं यदि मन्यसेयोऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते ॥४०॥
द्रौपद्युवाचअन्ये वै तं वधिष्यन्ति येषामागः करोति सःमन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ॥४१॥
End of chapter ॥
1
Mahabharata · Virata Parva

Adhyaya 15

0
Adhyaya 15Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0