Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Virata Parva
वैशंपायन उवाच
याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सतिदुर्योधनः सहामात्यो विराटमुपयादथ ॥१॥
भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित्द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः ॥२॥
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान्दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः ॥३॥
एते मत्स्यानुपागम्य विराटस्य महीपतेःघोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥४॥
षष्टिं गवां सहस्राणि कुरवः कालयन्ति तेमहता रथवंशेन परिवार्य समन्ततः ॥५॥
गोपालानां तु घोषेषु हन्यतां तैर्महारथैःआरावः सुमहानासीत्संप्रहारे भयंकरे ॥६॥
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरःजगाम नगरायैव परिक्रोशंस्तदार्तवत् ॥७॥
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततःअवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥८॥
दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम्तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥९॥
षष्टिं गवां सहस्राणि कुरवः कालयन्ति तेतद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ॥१०॥
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम्त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥११॥
त्वया परिषदो मध्ये श्लाघते स नराधिपःपुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥१२॥
इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतःतस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ॥१३॥
आवर्तय कुरूञ्जित्वा पशून्पशुमतां वरनिर्दहैषामनीकानि भीमेन शरतेजसा ॥१४॥
धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिःद्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥१५॥
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम्शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥१६॥
श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाःध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ॥१७॥
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वयाछादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ॥१८॥
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान्यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥१९॥
त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतःगतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥२०॥
स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम्अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥२१॥
End of chapter ॥
1
Mahabharata · Virata Parva

Adhyaya 33

0
Adhyaya 33Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0