Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Virata Parva
युधिष्ठिर उवाच
कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथमम चापि यथाबुद्धि रुचितानि विनिश्चयात् ॥१॥
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतुसूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥२॥
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान्यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥३॥
इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाःपाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ॥४॥
सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाःगता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ॥५॥
धौम्य उवाच
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतःअतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत ॥६॥
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वःयथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ॥७॥
दुर्वसं त्वेव कौरव्या जानता राजवेश्मनिअमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ॥८॥
दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत्तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ॥९॥
नास्य यानं न पर्यङ्कं न पीठं न गजं रथम्आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ॥१०॥
अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणःन तत्रोपविशेज्जातु स राजवसतिं वसेत् ॥११॥
न चानुशिष्येद्राजानमपृच्छन्तं कदाचनतूष्णीं त्वेनमुपासीत काले समभिपूजयन् ॥१२॥
असूयन्ति हि राजानो जनाननृतवादिनःतथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥१३॥
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचनअन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥१४॥
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपिएवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् ॥१५॥
यत्नाच्चोपचरेदेनमग्निवद्देववच्च हअनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् ॥१६॥
यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत्प्रमादमवहेलां च कोपं च परिवर्जयेत् ॥१७॥
समर्थनासु सर्वासु हितं च प्रियमेव चसंवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ॥१८॥
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु चअप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ॥१९॥
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितःअप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् ॥२०॥
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत्स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ॥२१॥
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितःरक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयतेनित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ॥२२॥
न च संदर्शने किंचित्प्रवृद्धमपि संजपेत्अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥२३॥
न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत्यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ॥२४॥
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनःप्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् ॥२५॥
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतःअप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ॥२६॥
यस्य कोपो महाबाधः प्रसादश्च महाफलःकस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ॥२७॥
न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत्सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ॥२८॥
हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित्नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ॥२९॥
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथास्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ॥३०॥
लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितःअसंमूढश्च यो नित्यं स राजवसतिं वसेत् ॥३१॥
राजानं राजपुत्रं वा संवर्तयति यः सदाअमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ॥३२॥
प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैःन निर्बध्नाति राजानं लभते प्रग्रहं पुनः ॥३३॥
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणःउपजीवी भवेद्राज्ञो विषये चापि यो वसेत् ॥३४॥
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यःन स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ॥३५॥
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत्विशेषयेन्न राजानं योग्याभूमिषु सर्वदा ॥३६॥
अम्लानो बलवाञ्शूरश्छायेवानपगः सदासत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥३७॥
अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत्अहं किं करवाणीति स राजवसतिं वसेत् ॥३८॥
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवाआदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥३९॥
यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत्दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ॥४०॥
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत्मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ॥४१॥
न कर्मणि नियुक्तः सन्धनं किंचिदुपस्पृशेत्प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् ॥४२॥
यानं वस्त्रमलंकारं यच्चान्यत्संप्रयच्छतितदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ॥४३॥
संवत्सरमिमं तात तथाशीला बुभूषवःअथ स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥४४॥
युधिष्ठिर उवाच
अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चनकुन्तीमृते मातरं नो विदुरं च महामतिम् ॥४५॥
यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हतितारणायास्य दुःखस्य प्रस्थानाय जयाय च ॥४६॥
वैशंपायन उवाच
एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमःअकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ॥४७॥
तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सःसमृद्धिवृद्धिलाभाय पृथिवीविजयाय च ॥४८॥
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान्याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥४९॥
End of chapter ॥
1
Mahabharata · Virata Parva

Adhyaya 4

0
Adhyaya 4Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0