Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Virata Parva
वैशंपायन उवाच
अपयाते तु राधेये दुर्योधनपुरोगमाःअनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् ॥१॥
बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैःअभियानीयमाज्ञाय वैराटिरिदमब्रवीत् ॥२॥
आस्थाय रुचिरं जिष्णो रथं सारथिना मयाकतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥३॥
अर्जुन उवाच
लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसिनीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ॥४॥
कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम्एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ॥५॥
कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभःआचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ॥६॥
सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम्अत्रैव चाविरोधेन एष धर्मः सनातनः ॥७॥
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यतिततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति ॥८॥
अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यतेआचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ॥९॥
सदा ममैष मान्यश्च सर्वशस्त्रभृतामपिएतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ॥१०॥
य एष तु रथानीके सुवर्णकवचावृतःसेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति ॥११॥
यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितःधृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ॥१२॥
एतस्याभिमुखं वीर रथं पररथारुजःप्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः ॥१३॥
एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतःएतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः ॥१४॥
नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठतिएष वैकर्तनः कर्णो विदितः पूर्वमेव ते ॥१५॥
एतस्य रथमास्थाय राधेयस्य दुरात्मनःयत्तो भवेथाः संग्रामे स्पर्धत्येष मया सदा ॥१६॥
यस्तु नीलानुसारेण पञ्चतारेण केतुनाहस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ॥१७॥
यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितःयस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ॥१८॥
महतो रथवंशस्य नानाध्वजपताकिनःबलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ॥१९॥
हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यतेजातरूपशिरस्त्राणस्त्रासयन्निव मे मनः ॥२०॥
एष शांतनवो भीष्मः सर्वेषां नः पितामहःराजश्रियावबद्धस्तु दुर्योधनवशानुगः ॥२१॥
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत्एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ॥२२॥
ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम्यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम् ॥२३॥
End of chapter ॥
1
Mahabharata · Virata Parva

Adhyaya 50

0
Adhyaya 50Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0