Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Virata Parva
वैशंपायन उवाच
अवजित्य धनं चापि विराटो वाहिनीपतिःप्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥१॥
जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाःअशोभत महाराजः सह पार्थैः श्रिया वृतः ॥२॥
तमासनगतं वीरं सुहृदां प्रीतिवर्धनम्उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ॥३॥
सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट्विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥४॥
ततः स राजा मत्स्यानां विराटो वाहिनीपतिःउत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ॥५॥
आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनिअन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥६॥
विजेतुमभिसंरब्ध एक एवातिसाहसात्बृहन्नडासहायश्च निर्यातः पृथिवींजयः ॥७॥
उपयातानतिरथान्द्रोणं शांतनवं कृपम्कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥८॥
राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम्बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥९॥
सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाःत्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ॥१०॥
तस्माद्गच्छन्तु मे योधा बलेन महता वृताःउत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥११॥
हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसंघांश्च ततः प्रवीरान्प्रस्थापयामास सुतस्य हेतो;र्विचित्रशस्त्राभरणोपपन्नान् ॥१२॥
एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिःव्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥१३॥
कुमारमाशु जानीत यदि जीवति वा न वायस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ॥१४॥
तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम्बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः ॥१५॥
सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान्अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन ॥१६॥
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनःविराटनगरं प्राप्य जयमावेदयंस्तदा ॥१७॥
राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम्पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ॥१८॥
सर्वा विनिर्जिता गावः कुरवश्च पराजिताःउत्तरः सह सूतेन कुशली च परंतप ॥१९॥
कङ्क उवाच
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताःदिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ ॥२०॥
नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा ॥२१॥
वैशंपायन उवाच
ततो विराटो नृपतिः संप्रहृष्टतनूरुहःश्रुत्वा तु विजयं तस्य कुमारस्यामितौजसःआच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् ॥२२॥
राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताःपुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ॥२३॥
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताःवादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥२४॥
घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम्शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ॥२५॥
उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृताशृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् ॥२६॥
श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्चभेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च ॥२७॥
तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याःपुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ॥२८॥
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताःमत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत्अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ॥२९॥
तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषतन देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥३०॥
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहेप्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ॥३१॥
विराट उवाच
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचनन मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम् ॥३२॥
कङ्क उवाच
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानददेवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥३३॥
श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरःस राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ॥३४॥
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचयेअथ वा मन्यसे राजन्दीव्याव यदि रोचते ॥३५॥
वैशंपायन उवाच
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत्पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ॥३६॥
ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरःबृहन्नडा यस्य यन्ता कथं स न विजेष्यति ॥३७॥
इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत्समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ॥३८॥
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसेभीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ॥३९॥
वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमेनेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ॥४०॥
युधिष्ठिर उवाच
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपःदुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ॥४१॥
मरुद्गणैः परिवृतः साक्षादपि शतक्रतुःकोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान् ॥४२॥
विराट उवाच
बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसिनियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ॥४३॥
वैशंपायन उवाच
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम्मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ॥४४॥
बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत्तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ॥४५॥
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम्सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा ॥४६॥
पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दितातच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ॥४७॥
अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथाअवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥४८॥
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथाआसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् ॥४९॥
ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत्बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः ॥५०॥
ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत्प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ॥५१॥
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा ॥५२॥
एतस्य हि महाबाहो व्रतमेतत्समाहितम्यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत्अन्यत्र संग्रामगतान्न स जीवेदसंशयम् ॥५३॥
न मृष्याद्भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम्विराटमिह सामात्यं हन्यात्सबलवाहनम् ॥५४॥
End of chapter ॥
1
Mahabharata · Virata Parva

Adhyaya 63

0
Adhyaya 63Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0