Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
इन्द्र उवाच
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत् ॥१॥
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम्कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः ॥२॥
तेजस्वी च महात्मा च युद्धे चामितविक्रमःग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् ॥३॥
तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसःविष्णोः क्षयमुपागम्य समेत्य च महात्मनातेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः ॥४॥
शल्य उवाच
एवमुक्ते मघवता देवाः सर्षिगणास्तदाशरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् ॥५॥
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताःत्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो ॥६॥
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणेबलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥७॥
त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम्त्वं हि देव महादेवः सर्वलोकनमस्कृतः ॥८॥
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तमजगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ॥९॥
विष्णुरुवाचअवश्यं करणीयं मे भवतां हितमुत्तमम्तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति ॥१०॥
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥११॥
भविष्यति गतिर्देवाः शक्रस्य मम तेजसाअदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् ॥१२॥
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाःवृत्रस्य सह शक्रेण संधिं कुरुत माचिरम् ॥१३॥
शल्य उवाच
एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथाययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥१४॥
समीपमेत्य च तदा सर्व एव महौजसःतं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥१५॥
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथाददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः ॥१६॥
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचःव्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥१७॥
न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम्युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥१८॥
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाःसख्यं भवतु ते वृत्र शक्रेण सह नित्यदाअवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ॥१९॥
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलःउवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः ॥२०॥
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशःयद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः ॥२१॥
संधिः कथं वै भविता मम शक्रस्य चोभयोःतेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥२२॥
ऋषय ऊचुःसकृत्सतां संगतं लिप्सितव्यं; ततः परं भविता भव्यमेवनातिक्रमेत्सत्पुरुषेण संगतं; तस्मात्सतां संगतं लिप्सितव्यम् ॥२३॥
दृढं सतां संगतं चापि नित्यं; ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरःमहार्थवत्सत्पुरुषेण संगतं; तस्मात्सन्तं न जिघांसेत धीरः ॥२४॥
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम्सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः ॥२५॥
तेन ते सह शक्रेण संधिर्भवतु शाश्वतःएवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ॥२६॥
शल्य उवाच
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिःअवश्यं भगवन्तो मे माननीयास्तपस्विनः ॥२७॥
ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिहततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः ॥२८॥
न शुष्केण न चार्द्रेण नाश्मना न च दारुणान शस्त्रेण न वज्रेण न दिवा न तथा निशि ॥२९॥
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैःएवं मे रोचते संधिः शक्रेण सह नित्यदा ॥३०॥
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभएवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत् ॥३१॥
यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितःवृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन्रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा ॥३२॥
स कदाचित्समुद्रान्ते तमपश्यन्महासुरम्संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे ॥३३॥
ततः संचिन्त्य भगवान्वरदानं महात्मनःसंध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न चवृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥३४॥
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम्महाबलं महाकायं न मे श्रेयो भविष्यति ॥३५॥
एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन्अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥३६॥
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथाएनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ॥३७॥
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥३८॥
निहते तु ततो वृत्रे दिशो वितिमिराभवन्प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा ॥३९॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाःऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ॥४०॥
नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन्हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैःविष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् ॥४१॥
ततो हते महावीर्ये वृत्रे देवभयंकरेअनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाःत्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया ॥४२॥
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनःन प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैःप्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥४३॥
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दितेभूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककाननाविच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ॥४४॥
संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत्देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ॥४५॥
अराजकं जगत्सर्वमभिभूतमुपद्रवैःततो भीताभवन्देवाः को नो राजा भवेदिति ॥४६॥
दिवि देवर्षयश्चापि देवराजविनाकृताःन च स्म कश्चिद्देवानां राज्याय कुरुते मनः ॥४७॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 10

0
Adhyaya 10Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0