Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
नारद उवाच
इदं रसातलं नाम सप्तमं पृथिवीतलम्यत्रास्ते सुरभिर्माता गवाममृतसंभवा ॥१॥
क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम्षण्णां रसानां सारेण रसमेकमनुत्तमम् ॥२॥
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरापितामहस्य वदनादुदतिष्ठदनिन्दिता ॥३॥
यस्याः क्षीरस्य धाराया निपतन्त्या महीतलेह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् ॥४॥
पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम्पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ॥५॥
फेनपा नाम नाम्ना ते फेनाहाराश्च मातलेउग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥६॥
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातलेनिवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः ॥७॥
पूर्वां दिशं धारयते सुरूपा नाम सौरभीदक्षिणां हंसका नाम धारयत्यपरां दिशम् ॥८॥
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रयामहानुभावया नित्यं मातले विश्वरूपया ॥९॥
सर्वकामदुघा नाम धेनुर्धारयते दिशम्उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम् ॥१०॥
आसां तु पयसा मिश्रं पयो निर्मथ्य सागरेमन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ॥११॥
उद्धृता वारुणी लक्ष्मीरमृतं चापि मातलेउच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ॥१२॥
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्अमृतं चामृताशेषु सुरभिः क्षरते पयः ॥१३॥
अत्र गाथा पुरा गीता रसातलनिवासिभिःपौराणी श्रूयते लोके गीयते या मनीषिभिः ॥१४॥
न नागलोके न स्वर्गे न विमाने त्रिविष्टपेपरिवासः सुखस्तादृग्रसातलतले यथा ॥१५॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 100

0
Adhyaya 100Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0