Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
नारद उवाच
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ॥१॥
शक्रस्यायं सखा चैव मन्त्री सारथिरेव चअल्पान्तरप्रभावश्च वासवेन रणे रणे ॥२॥
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम्देवासुरेषु युद्धेषु मनसैव नियच्छति ॥३॥
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवःअनेन प्रहृते पूर्वं बलभित्प्रहरत्युत ॥४॥
अस्य कन्या वरारोहा रूपेणासदृशी भुविसत्त्वशीलगुणोपेता गुणकेशीति विश्रुता ॥५॥
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युतेसुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥६॥
यदि ते रोचते सौम्य भुजगोत्तम माचिरम्क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे ॥७॥
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोःकुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥८॥
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतुसदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥९॥
पितृहीनमपि ह्येनं गुणतो वरयामहेबहुमानाच्च भवतस्तथैवैरावतस्य चसुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ॥१०॥
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतःमातलेस्तस्य संमानं कर्तुमर्हो भवानपि ॥११॥
कण्व उवाच
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकःव्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ॥१२॥
न मे नैतद्बहुमतं देवर्षे वचनं तवसखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् ॥१३॥
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुनेअस्य देहकरस्तात मम पुत्रो महाद्युतेभक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ॥१४॥
पुनरेव च तेनोक्तं वैनतेयेन गच्छतामासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥१५॥
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ॥१६॥
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मयाजामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥१७॥
सोऽयं मया च सहितो नारदेन च पन्नगःत्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥१८॥
शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषःसुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥१९॥
सुमुखश्च मया सार्धं देवेशमभिगच्छतुकार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम ॥२०॥
ततस्ते सुमुखं गृह्य सर्व एव महौजसःददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥२१॥
संगत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजःततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ॥२२॥
ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम्अमृतं दीयतामस्मै क्रियताममरैः समः ॥२३॥
मातलिर्नारदश्चैव सुमुखश्चैव वासवलभन्तां भवतः कामात्काममेतं यथेप्सितम् ॥२४॥
पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम्विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ॥२५॥
विष्णुरुवाचईशस्त्वमसि लोकानां चराणामचराश्च येत्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥२६॥
कण्व उवाच
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्न त्वेनममृतप्राशं चकार बलवृत्रहा ॥२७॥
लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव हकृतदारो यथाकामं जगाम च गृहान्प्रति ॥२८॥
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौप्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥२९॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 102

0
Adhyaya 102Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0