Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
कण्व उवाच
गरुडस्तत्तु शुश्राव यथावृत्तं महाबलःआयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥१॥
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगःसुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥२॥
गरुड उवाच
भगवन्किमवज्ञानात्क्षुधां प्रति भये ममकामकारवरं दत्त्वा पुनश्चलितवानसि ॥३॥
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मेआहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥४॥
वृतश्चैष महानागः स्थापितः समयश्च मेअनेन च मया देव भर्तव्यः प्रसवो महान् ॥५॥
एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहेक्रीडसे कामकारेण देवराज यथेच्छकम् ॥६॥
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो ममये च भृत्या मम गृहे प्रीतिमान्भव वासव ॥७॥
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥८॥
त्वयि तिष्ठति देवेश न विष्णुः कारणं ममत्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् ॥९॥
ममापि दक्षस्य सुता जननी कश्यपः पिताअहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा ॥१०॥
असह्यं सर्वभूतानां ममापि विपुलं बलम्मयापि सुमहत्कर्म कृतं दैतेयविग्रहे ॥११॥
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखःप्रसभः कालकाक्षश्च मयापि दितिजा हताः ॥१२॥
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्वहामि चैवानुजं ते तेन मामवमन्यसे ॥१३॥
कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरःमया योऽहं विशिष्टः सन्वहामीमं सबान्धवम् ॥१४॥
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितःतेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥१५॥
अदित्यां य इमे जाता बलविक्रमशालिनःत्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः ॥१६॥
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमःविमृश त्वं शनैस्तात को न्वत्र बलवानिति ॥१७॥
कण्व उवाच
तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम्अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥१८॥
गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम्अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥१९॥
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणेअहमेवात्मनात्मानं वहामि त्वां च धारये ॥२०॥
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वहयद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥२१॥
ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत्निपपात स भारार्तो विह्वलो नष्टचेतनः ॥२२॥
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सहएकस्या देहशाखायास्तावद्भारममन्यत ॥२३॥
न त्वेनं पीडयामास बलेन बलवत्तरःततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥२४॥
विपक्षः स्रस्तकायश्च विचेता विह्वलः खगःमुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥२५॥
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतःविचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् ॥२६॥
भगवँल्लोकसारस्य सदृशेन वपुष्मताभुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥२७॥
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसःबलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥२८॥
न विज्ञातं बलं देव मया ते परमं विभोतेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः ॥२९॥
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतःमैवं भूय इति स्नेहात्तदा चैनमुवाच ह ॥३०॥
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणेनासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ॥३१॥
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलःधनंजयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥३२॥
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौएते देवास्त्वया केन हेतुना शक्यमीक्षितुम् ॥३३॥
तदलं ते विरोधेन शमं गच्छ नृपात्मजवासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥३४॥
प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाःमाहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः ॥३५॥
वैशंपायन उवाच
दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखःराधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा ॥३६॥
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिःऊरुं गजकराकारं ताडयन्निदमब्रवीत् ॥३७॥
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिःतथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥३८॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 103

0
Adhyaya 103Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0