Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
पुत्र उवाच
कृष्णायसस्येव च ते संहत्य हृदयं कृतम्मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे ॥१॥
अहो क्षत्रसमाचारो यत्र मामपरं यथाईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ॥२॥
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वयाकिमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ॥३॥
मातोवाचसर्वारम्भा हि विदुषां तात धर्मार्थकारणात्तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम् ॥४॥
स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतःअस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसेअसंभावितरूपस्त्वं सुनृशंसं करिष्यसि ॥५॥
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजयखरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ॥६॥
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम्अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ॥७॥
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेःधर्मार्थगुणयुक्तेन नेतरेण कथंचनदैवमानुषयुक्तेन सद्भिराचरितेन च ॥८॥
यो ह्येवमविनीतेन रमते पुत्रनप्तृणाअनुत्थानवता चापि मोघं तस्य प्रजाफलम् ॥९॥
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि चसुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ॥१०॥
युद्धाय क्षत्रियः सृष्टः संजयेह जयाय चक्रूराय कर्मणे नित्यं प्रजानां परिपालनेजयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ॥११॥
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते ॥१२॥
मन्युना दह्यमानेन पुरुषेण मनस्विनानिकृतेनेह बहुशः शत्रून्प्रतिजिगीषया ॥१३॥
आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वैअतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥१४॥
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छतियस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥१५॥
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम्ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥१६॥
पुत्र उवाच
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतःकारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् ॥१७॥
मातोवाचअतो मे भूयसी नन्दिर्यदेवमनुपश्यसिचोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥१८॥
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते ॥१९॥
पुत्र उवाच
अकोशस्यासहायस्य कुतः स्विद्विजयो ममइत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम्राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः ॥२०॥
ईदृशं भवती कंचिदुपायमनुपश्यतितन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छतेकरिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥२१॥
मातोवाचपुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिःअभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे ॥२२॥
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैःसर्वेषां कर्मणां तात फले नित्यमनित्यता ॥२३॥
अनित्यमिति जानन्तो न भवन्ति भवन्ति चअथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ॥२४॥
ऐकगुण्यमनीहायामभावः कर्मणां फलम्अथ द्वैगुण्यमीहायां फलं भवति वा न वा ॥२५॥
यस्य प्रागेव विदिता सर्वार्थानामनित्यतानुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ॥२६॥
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसुभविष्यतीत्येव मनः कृत्वा सततमव्यथैःमङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह ॥२७॥
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रकअभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ॥२८॥
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि चअनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम्पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ॥२९॥
क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान्स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय ॥३०॥
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्महावेग इवोद्धूतो मातरिश्वा बलाहकान् ॥३१॥
तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदःते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् ॥३२॥
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम्तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव ॥३३॥
तं विदित्वा पराक्रान्तं वशे न कुरुते यदिनिर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥३४॥
निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यतिधनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥३५॥
स्खलितार्थं पुनस्तात संत्यजन्त्यपि बान्धवाःअप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् ॥३६॥
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छतिअतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥३७॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 133

0
Adhyaya 133Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0