Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
धृतराष्ट्र उवाच
राजपुत्रैः परिवृतस्तथामात्यैश्च संजयउपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥१॥
किमब्रवीद्रथोपस्थे राधेयं परवीरहाकानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥२॥
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय ॥३॥
संजय उवाच
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि चप्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥४॥
हृदयग्रहणीयानि राधेयं मधुसूदनःयान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥५॥
वासुदेव उवाच
उपासितास्ते राधेय ब्राह्मणा वेदपारगाःतत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥६॥
त्वमेव कर्ण जानासि वेदवादान्सनातनान्त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥७॥
कानीनश्च सहोढश्च कन्यायां यश्च जायतेवोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥८॥
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतःनिग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥९॥
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयःद्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥१०॥
मया सार्धमितो यातमद्य त्वां तात पाण्डवाःअभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥११॥
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाःद्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥१२॥
राजानो राजपुत्राश्च पाण्डवार्थे समागताःपादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥१३॥
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथाओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥१४॥
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम्षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ॥१५॥
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयःपुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ॥१६॥
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाःद्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ॥१७॥
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम्युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ॥१८॥
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतःउपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ॥१९॥
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलःअभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ॥२०॥
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ॥२१॥
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यतिनकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ॥२२॥
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथःअहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयःदाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ॥२३॥
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैःजपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥२४॥
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैःआन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥२५॥
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाःविजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥२६॥
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाःप्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥२७॥
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथासौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥२८॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 138

0
Adhyaya 138Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0