Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
शल्य उवाच
अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिःतां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् ॥१॥
इन्द्राणी संप्रहृष्टा सा संपूज्यैनामपृच्छतइच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ॥२॥
उपश्रुतिरुवाचउपश्रुतिरहं देवि तवान्तिकमुपागतादर्शनं चैव संप्राप्ता तव सत्येन तोषिता ॥३॥
पतिव्रतासि युक्ता च यमेन नियमेन चदर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम्क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ॥४॥
शल्य उवाच
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात्देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततःहिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् ॥५॥
समुद्रं च समासाद्य बहुयोजनविस्तृतम्आससाद महाद्वीपं नानाद्रुमलतावृतम् ॥६॥
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम्शतयोजनविस्तीर्णं तावदेवायतं शुभम् ॥७॥
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारतषट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः ॥८॥
पद्मस्य भित्त्वा नालं च विवेश सहिता तयाबिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥९॥
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम्सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा ॥१०॥
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिःस्तूयमानस्ततो देवः शचीमाह पुरंदरः ॥११॥
किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम्ततः सा कथयामास नहुषस्य विचेष्टितम् ॥१२॥
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितःदर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतोउपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम ॥१३॥
यदि न त्रास्यसि विभो करिष्यति स मां वशेएतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम्जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ॥१४॥
प्रकाशयस्व चात्मानं दैत्यदानवसूदनतेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥१५॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 14

0
Adhyaya 14Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0