Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
संजय उवाच
कर्णस्य वचनं श्रुत्वा केशवः परवीरहाउवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा ॥१॥
अपि त्वां न तपेत्कर्ण राज्यलाभोपपादनामया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥२॥
ध्रुवो जयः पाण्डवानामितीदं; न संशयः कश्चन विद्यतेऽत्रजयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः ॥३॥
दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशादिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि ॥४॥
न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपःश्रीमान्ध्वजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः ॥५॥
यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम्ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते ॥६॥
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेःन तदा भविता त्रेता न कृतं द्वापरं न च ॥७॥
यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम्जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥८॥
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम्न तदा भविता त्रेता न कृतं द्वापरं न च ॥९॥
यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम्दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥१०॥
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम्न तदा भविता त्रेता न कृतं द्वापरं न च ॥११॥
यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौवाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥१२॥
विगाढे शस्त्रसंपाते परवीररथारुजौन तदा भविता त्रेता न कृतं द्वापरं न च ॥१३॥
यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम्सुयोधनं च राजानं सैन्धवं च जयद्रथम् ॥१४॥
युद्धायापततस्तूर्णं वारितान्सव्यसाचिनान तदा भविता त्रेता न कृतं द्वापरं न च ॥१५॥
ब्रूयाः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम्सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥१६॥
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकःनिष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥१७॥
सप्तमाच्चापि दिवसादमावास्या भविष्यतिसंग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् ॥१८॥
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताःयद्वो मनीषितं तद्वै सर्वं संपादयामि वः ॥१९॥
राजानो राजपुत्राश्च दुर्योधनवशानुगाःप्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥२०॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 140

0
Adhyaya 140Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0