Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
संजय उवाच
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम्अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम्जानन्मां किं महाबाहो संमोहयितुमिच्छसि ॥१॥
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितःनिमित्तं तत्र शकुनिरहं दुःशासनस्तथादुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥२॥
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम्पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥३॥
राजानो राजपुत्राश्च दुर्योधनवशानुगाःरणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥४॥
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदननिमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥५॥
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरेशंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ॥६॥
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिःशनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥७॥
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदनअनुराधां प्रार्थयते मैत्रं संशमयन्निव ॥८॥
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम्विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥९॥
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यतिदिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥१०॥
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनःपानीयं यवसं चापि नाभिनन्दन्ति माधव ॥११॥
प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम्निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥१२॥
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यतेवाजिनां वारणानां च मनुष्याणां च केशव ॥१३॥
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदनपराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥१४॥
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षतेप्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥१५॥
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशववाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ॥१६॥
मयूराः पुष्पशकुना हंसाः सारसचातकाःजीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान् ॥१७॥
गृध्राः काका बडाः श्येना यातुधानाः शलावृकाःमक्षिकाणां च संघाता अनुगच्छन्ति कौरवान् ॥१८॥
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनःअनाहताः पाण्डवानां नदन्ति पटहाः किल ॥१९॥
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथाधार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥२०॥
मांसशोणितवर्षं च वृष्टं देवेन माधवतथा गन्धर्वनगरं भानुमन्तमुपस्थितम्सप्राकारं सपरिखं सवप्रं चारुतोरणम् ॥२१॥
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठतिउदयास्तमये संध्ये वेदयानो महद्भयम्एका सृग्वाशते घोरं तत्पराभवलक्षणम् ॥२२॥
कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाःसंध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ॥२३॥
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदनभृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥२४॥
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणाआमपात्रप्रतीकाशा पश्चिमा मधुसूदन ॥२५॥
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधवमहद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे ॥२६॥
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरःअधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥२७॥
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससःआसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥२८॥
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविलाआन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥२९॥
अस्थिसंचयमारूढश्चामितौजा युधिष्ठिरःसुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥३०॥
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुंधराम्त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुंधराम् ॥३१॥
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरःगदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ॥३२॥
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणेविदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥३३॥
पाण्डुरं गजमारूढो गाण्डीवी स धनंजयःत्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥३४॥
यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयःपार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥३५॥
नकुलः सहदेवश्च सात्यकिश्च महारथःशुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥३६॥
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम्त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ॥३७॥
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दनधार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ॥३८॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतःरक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥३९॥
उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दनमया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ॥४०॥
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दनअचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥४१॥
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम्गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥४२॥
कृष्ण उवाच
उपस्थितविनाशेयं नूनमद्य वसुंधरातथा हि मे वचः कर्ण नोपैति हृदयं तव ॥४३॥
सर्वेषां तात भूतानां विनाशे समुपस्थितेअनयो नयसंकाशो हृदयान्नापसर्पति ॥४४॥
कर्ण उवाच
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात्समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ॥४५॥
अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम्तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥४६॥
संजय उवाच
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम्विसर्जितः केशवेन रथोपस्थादवातरत् ॥४७॥
ततः स्वरथमास्थाय जाम्बूनदविभूषितम्सहास्माभिर्निववृते राधेयो दीनमानसः ॥४८॥
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिःपुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥४९॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 141

0
Adhyaya 141Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0