Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
वासुदेव उवाच
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण चगान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत ॥१॥
अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनःअन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ॥२॥
अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसःप्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ॥३॥
ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाःभीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ॥४॥
अक्षौहिण्यो दशैका च पार्थिवानां समागताःतासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचतयदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते ॥५॥
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण चगान्धार्या धृतराष्ट्रेण समक्षं मम भारतएतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥६॥
साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छताअभेदात्कुरुवंशस्य प्रजानां च विवृद्धये ॥७॥
पुनर्भेदश्च मे युक्तो यदा साम न गृह्यतेकर्मानुकीर्तनं चैव देवमानुषसंहितम् ॥८॥
यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनःतदा मया समानीय भेदिताः सर्वपार्थिवाः ॥९॥
अद्भुतानि च घोराणि दारुणानि च भारतअमानुषाणि कर्माणि दर्शितानि च मे विभो ॥१०॥
भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम्राधेयं भीषयित्वा च सौबलं च पुनः पुनः ॥११॥
न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनःभेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् ॥१२॥
पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम्अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ॥१३॥
ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य चतिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ॥१४॥
प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु चयथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् ॥१५॥
सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जयअवश्यं भरणीया हि पितुस्ते राजसत्तम ॥१६॥
एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चतदण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥१७॥
निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाःएतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि ॥१८॥
न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डवविनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ॥१९॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 148

0
Adhyaya 148Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0