Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
जनमेजय उवाच
युधिष्ठिरं सहानीकमुपयान्तं युयुत्सयासंनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥१॥
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम्केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥२॥
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैःश्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥३॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधनसंभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥४॥
व्यथयेयुर्हि देवानां सेनामपि समागमेपाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥५॥
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथःयुयुधानश्च विक्रान्तो देवैरपि दुरासदः ॥६॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधनकुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥७॥
वैशंपायन उवाच
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदाकर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥८॥
अकृतेनैव कार्येण गतः पार्थानधोक्षजःस एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ॥९॥
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहःभीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥१०॥
अजातशत्रुरप्यद्य भीमार्जुनवशानुगःनिकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥११॥
विराटद्रुपदौ चैव कृतवैरौ मया सहतौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥१२॥
भविता विग्रहः सोऽयं तुमुलो लोमहर्षणःतस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥१३॥
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाःसुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥१४॥
आसन्नजलकाष्ठानि शतशोऽथ सहस्रशःअच्छेद्याहारमार्गाणि रत्नोच्चयचितानि चविविधायुधपूर्णानि पताकाध्वजवन्ति च ॥१५॥
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिःप्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ॥१६॥
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथाहृष्टरूपा महात्मानो विनाशाय महीक्षिताम् ॥१७॥
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम्आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ॥१८॥
बाहून्परिघसंकाशान्संस्पृशन्तः शनैः शनैःकाञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ॥१९॥
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैःअन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥२०॥
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाःसज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ॥२१॥
अथ वर्माणि चित्राणि काञ्चनानि बहूनि चविविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ॥२२॥
पदातयश्च पुरुषाः शस्त्राणि विविधानि चउपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥२३॥
तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम्नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥२४॥
जनौघसलिलावर्तो रथनागाश्वमीनवान्शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान् ॥२५॥
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥२६॥
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवःअदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ॥२७॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 150

0
Adhyaya 150Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0