Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
वैशंपायन उवाच
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनःहिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ॥१॥
आहृतीनामधिपतेर्भोजस्यातियशस्विनःदाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥२॥
यः किंपुरुषसिंहस्य गन्धमादनवासिनःशिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ॥३॥
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसाशार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ॥४॥
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम्वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ॥५॥
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुःधारयामास यत्कृष्णः परसेनाभयावहम् ॥६॥
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिःद्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ॥७॥
संछिद्य मौरवान्पाशान्निहत्य मुरमोजसानिर्जित्य नरकं भौममाहृत्य मणिकुण्डले ॥८॥
षोडश स्त्रीसहस्राणि रत्नानि विविधानि चप्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ॥९॥
रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम्विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ॥१०॥
नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितःरुक्मिण्या हरणं वीरो वासुदेवेन धीमता ॥११॥
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम्ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् ॥१२॥
सेनया चतुरङ्गिण्या महत्या दूरपातयाविचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ॥१३॥
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ॥१४॥
यत्रैव कृष्णेन रणे निर्जितः परवीरहातत्र भोजकटं नाम चक्रे नगरमुत्तमम् ॥१५॥
सैन्येन महता तेन प्रभूतगजवाजिनापुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ॥१६॥
स भोजराजः सैन्येन महता परिवारितःअक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ॥१७॥
ततः स कवची खड्गी शरी धन्वी तली रथीध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ॥१८॥
विदितः पाण्डवेयानां वासुदेवप्रियेप्सयायुधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ॥१९॥
स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतःप्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकःउवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम् ॥२०॥
सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डवकरिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥२१॥
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चननिहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ॥२२॥
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौशृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ॥२३॥
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥२४॥
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैःसहायो घोषयात्रायां कस्तदासीत्सखा मम ॥२५॥
तथा प्रतिभये तस्मिन्देवदानवसंकुलेखाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ॥२६॥
निवातकवचैर्युद्धे कालकेयैश्च दानवैःतत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥२७॥
तथा विराटनगरे कुरुभिः सह संगरेयुध्यतो बहुभिस्तात कः सहायोऽभवन्मम ॥२८॥
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥२९॥
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥३०॥
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतःद्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ॥३१॥
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम्वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥३२॥
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मेयथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ॥३३॥
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥३४॥
तथैव चाभिगम्यैनमुवाच स नराधिपःप्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥३५॥
द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुःरौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ॥३६॥
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथाउपाविशन्पाण्डवेया मन्त्राय पुनरेव हि ॥३७॥
समितिर्धर्मराजस्य सा पार्थिवसमाकुलाशुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत ॥३८॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 155

0
Adhyaya 155Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0