Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
संजय उवाच
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसुदुर्योधनो महाराज कर्णेन सह भारत ॥१॥
सौबलेन च राजेन्द्र तथा दुःशासनेन चआहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ॥२॥
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान्गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः ॥३॥
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम्पाण्डवानां कुरूणां च युद्धं लोकभयंकरम् ॥४॥
यदेतत्कत्थनावाक्यं संजयो महदब्रवीत्मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतःयथा वः संप्रतिज्ञातं तत्सर्वं क्रियतामिति ॥५॥
अमर्षं राज्यहरणं वनवासं च पाण्डवद्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥६॥
यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम्बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम्पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् ॥७॥
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य चन स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च ॥८॥
कुले जातस्य शूरस्य परवित्तेषु गृध्यतःआच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥९॥
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम्अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥१०॥
अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवःद्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम् ॥११॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि ॥१२॥
राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डवकृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥१३॥
अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनःअमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम् ॥१४॥
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्इह ते पार्थ दृश्यन्तां संग्रामे पुरुषो भव ॥१५॥
तं च तूबरकं मूढं बह्वाशिनमविद्यकम्उलूक मद्वचो ब्रूया असकृद्भीमसेनकम् ॥१६॥
अशक्तेनैव यच्छप्तं सभामध्ये वृकोदरदुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥१७॥
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः ॥१८॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 157

0
Adhyaya 157Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0