Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
भीष्म उवाच
समुद्यतोऽयं भारो मे सुमहान्सागरोपमःधार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः ॥१॥
तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणेमिथोभेदो न मे कार्यस्तेन जीवसि सूतज ॥२॥
न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तवयुद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज ॥३॥
जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चतान मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि ॥४॥
कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम्वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन ॥५॥
समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरेनिर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः ॥६॥
ईदृशानां सहस्राणि विशिष्टानामथो पुनःमयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥७॥
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्उपस्थितो विनाशाय यतस्व पुरुषो भव ॥८॥
युध्यस्व पार्थं समरे येन विस्पर्धसे सहद्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ॥९॥
संजय उवाच
तमुवाच ततो राजा धार्तराष्ट्रो महामनाःमामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥१०॥
चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम्उभावपि भवन्तौ मे महत्कर्म करिष्यतः ॥११॥
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्ये चैवातिरथास्तत्र तथैव रथयूथपाः ॥१२॥
बलाबलममित्राणां श्रोतुमिच्छामि कौरवप्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥१३॥
भीष्म उवाच
एते रथास्ते संख्यातास्तथैवातिरथा नृपये चाप्यर्धरथा राजन्पाण्डवानामतः शृणु ॥१४॥
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृपरथसंख्यां महाबाहो सहैभिर्वसुधाधिपैः ॥१५॥
स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनःअग्निवत्समरे तात चरिष्यति न संशयः ॥१६॥
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितःनागायुतबलो मानी तेजसा न स मानुषः ॥१७॥
माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौअश्विनाविव रूपेण तेजसा च समन्वितौ ॥१८॥
एते चमूमुखगताः स्मरन्तः क्लेशमात्मनःरुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ॥१९॥
सर्व एव महात्मानः शालस्कन्धा इवोद्गताःप्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः ॥२०॥
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाःचरितब्रह्मचर्याश्च सर्वे चातितपस्विनः ॥२१॥
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाःजवे प्रहारे संमर्दे सर्व एवातिमानुषाःसर्वे जितमहीपाला दिग्जये भरतर्षभ ॥२२॥
न चैषां पुरुषाः केचिदायुधानि गदाः शरान्विषहन्ति सदा कर्तुमधिज्यान्यपि कौरवउद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् ॥२३॥
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणेबालैरपि भवन्तस्तैः सर्व एव विशेषिताः ॥२४॥
ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाःविध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः ॥२५॥
एकैकशस्ते संग्रामे हन्युः सर्वान्महीक्षितःप्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ॥२६॥
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरःते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत् ॥२७॥
लोहिताक्षो गुडाकेशो नारायणसहायवान्उभयोः सेनयोर्वीर रथो नास्तीह तादृशः ॥२८॥
न हि देवेषु वा पूर्वं दानवेषूरगेषु वाराक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ॥२९॥
भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतःसमायुक्तो महाराज यथा पार्थस्य धीमतः ॥३०॥
वासुदेवश्च संयन्ता योद्धा चैव धनंजयःगाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ॥३१॥
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधीअस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च ॥३२॥
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाःवज्रादीनि च मुख्यानि नानाप्रहरणानि वै ॥३३॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम्हतान्येकरथेनाजौ कस्तस्य सदृशो रथः ॥३४॥
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमःतव सेनां महाबाहुः स्वां चैव परिपालयन् ॥३५॥
अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम्न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपिय एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ॥३६॥
जीमूत इव घर्मान्ते महावातसमीरितःसमायुक्तस्तु कौन्तेयो वासुदेवसहायवान्तरुणश्च कृती चैव जीर्णावावामुभावपि ॥३७॥
संजय उवाच
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदाकाञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ॥३८॥
मनोभिः सह सावेगैः संस्मृत्य च पुरातनम्सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् ॥३९॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 166

0
Adhyaya 166Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0