Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
शल्य उवाच
अथ संचिन्तयानस्य देवराजस्य धीमतःनहुषस्य वधोपायं लोकपालैः सहैव तैःतपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत ॥१॥
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्विश्वरूपविनाशेन वृत्रासुरवधेन च ॥२॥
दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरंदरदिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन ॥३॥
इन्द्र उवाच
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तवपाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ॥४॥
शल्य उवाच
पूजितं चोपविष्टं तमासने मुनिसत्तमम्पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ॥५॥
एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तमपरिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ॥६॥
अगस्त्य उवाच
शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान्स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ॥७॥
श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम्देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाःपप्रच्छुः संशयं देव नहुषं जयतां वर ॥८॥
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम्एते प्रमाणं भवत उताहो नेति वासवनहुषो नेति तानाह तमसा मूढचेतनः ॥९॥
ऋषय ऊचुःअधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसेप्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ॥१०॥
अगस्त्य उवाच
ततो विवदमानः स मुनिभिः सह वासवअथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ॥११॥
तेनाभूद्धततेजाः स निःश्रीकश्च शचीपतेततस्तमहमाविग्नमवोचं भयपीडितम् ॥१२॥
यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम्अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा ॥१३॥
यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान्वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः ॥१४॥
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम्दश वर्षसहस्राणि सर्परूपधरो महान्विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ॥१५॥
एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदमदिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः ॥१६॥
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपतेजितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ॥१७॥
शल्य उवाच
ततो देवा भृशं तुष्टा महर्षिगणसंवृताःपितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ॥१८॥
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाःसरांसि सरितः शैलाः सागराश्च विशां पते ॥१९॥
उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन्हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमतादिष्ट्या पापसमाचारः कृतः सर्पो महीतले ॥२०॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 17

0
Adhyaya 17Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0