Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
दुर्योधन उवाच
किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम्उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥१॥
पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैःवधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ॥२॥
भीष्म उवाच
शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैःयदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥३॥
महाराजो मम पिता शंतनुर्भरतर्षभःदिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ ॥४॥
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् ॥५॥
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितःविचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ॥६॥
मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतःविचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥७॥
तस्य दारक्रियां तात चिकीर्षुरहमप्युतअनुरूपादिव कुलादिति चिन्त्य मनो दधे ॥८॥
तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरेरूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदाअम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा ॥९॥
राजानश्च समाहूताः पृथिव्यां भरतर्षभअम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमाअम्बालिका च राजेन्द्र राजकन्या यवीयसी ॥१०॥
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम्अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताःराज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते ॥११॥
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्रथमारोपयां चक्रे कन्यास्ता भरतर्षभ ॥१२॥
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदाअवोचं पार्थिवान्सर्वानहं तत्र समागतान्भीष्मः शांतनवः कन्या हरतीति पुनः पुनः ॥१३॥
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाःप्रसह्य हि नयाम्येष मिषतां वो नराधिपाः ॥१४॥
ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाःयोगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन् ॥१५॥
ते रथैर्मेघसंकाशैर्गजैश्च गजयोधिनःपृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥१६॥
ततस्ते मां महीपालाः सर्व एव विशां पतेरथव्रातेन महता सर्वतः पर्यवारयन् ॥१७॥
तानहं शरवर्षेण महता प्रत्यवारयम्सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥१८॥
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान्एकैकेन हि बाणेन भूमौ पातितवानहम् ॥१९॥
हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणेअपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ ॥२०॥
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं ममअथाहं हास्तिनपुरमायां जित्वा महीक्षितः ॥२१॥
अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारततच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥२२॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 170

0
Adhyaya 170Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0