Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
भीष्म उवाच
सा निष्क्रमन्ती नगराच्चिन्तयामास भारतपृथिव्यां नास्ति युवतिर्विषमस्थतरा मयाबान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता ॥१॥
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् ॥२॥
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्आहोस्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ॥३॥
ममायं स्वकृतो दोषो याहं भीष्मरथात्तदाप्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरातस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् ॥४॥
धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम्येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता ॥५॥
धिङ्मां धिक्शाल्वराजानं धिग्धातारमथापि चयेषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ॥६॥
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवःअनयस्यास्य तु मुखं भीष्मः शांतनवो मम ॥७॥
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम्तपसा वा युधा वापि दुःखहेतुः स मे मतःको नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ॥८॥
एवं सा परिनिश्चित्य जगाम नगराद्बहिःआश्रमं पुण्यशीलानां तापसानां महात्मनाम्ततस्तामवसद्रात्रिं तापसैः परिवारिता ॥९॥
आचख्यौ च यथा वृत्तं सर्वमात्मनि भारतविस्तरेण महाबाहो निखिलेन शुचिस्मिताहरणं च विसर्गं च शाल्वेन च विसर्जनम् ॥१०॥
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतःशैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः ॥११॥
आर्तां तामाह स मुनिः शैखावत्यो महातपाःनिःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥१२॥
एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिःआश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः ॥१३॥
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहःप्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम् ॥१४॥
मयैवैतानि कर्माणि पूर्वदेहेषु मूढयाकृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ॥१५॥
नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाःप्रत्याख्याता निरानन्दा शाल्वेन च निराकृता ॥१६॥
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाःयुष्माभिर्देवसंकाशाः कृपा भवतु वो मयि ॥१७॥
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिःसान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥१८॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 173

0
Adhyaya 173Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0