Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
अकृतव्रण उवाच
दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसिप्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे ॥१॥
यदि सौभपतिर्भद्रे नियोक्तव्यो मते तवनियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया ॥२॥
अथापगेयं भीष्मं तं रामेणेच्छसि धीमतारणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ॥३॥
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मितेयदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम् ॥४॥
अम्बोवाचअपनीतास्मि भीष्मेण भगवन्नविजानतान हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः ॥५॥
एतद्विचार्य मनसा भवानेव विनिश्चयम्विचिनोतु यथान्यायं विधानं क्रियतां तथा ॥६॥
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनःउभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर ॥७॥
निवेदितं मया ह्येतद्दुःखमूलं यथातथम्विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ॥८॥
अकृतव्रण उवाच
उपपन्नमिदं भद्रे यदेवं वरवर्णिनिधर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम ॥९॥
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम्शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः ॥१०॥
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनिसंशयः शाल्वराजस्य तेन त्वयि सुमध्यमे ॥११॥
भीष्मः पुरुषमानी च जितकाशी तथैव चतस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया ॥१२॥
अम्बोवाचममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्ततेघातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥१३॥
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसिप्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ॥१४॥
भीष्म उवाच
एवं कथयतामेव तेषां स दिवसो गतःरात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥१५॥
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसाशिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ॥१६॥
धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधीविरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम् ॥१७॥
ततस्तं तापसा दृष्ट्वा स च राजा महातपाःतस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी ॥१८॥
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम्अर्चितश्च यथायोगं निषसाद सहैव तैः ॥१९॥
ततः पूर्वव्यतीतानि कथयेते स्म तावुभौसृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत ॥२०॥
ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम्उवाच मधुरं काले रामं वचनमर्थवत् ॥२१॥
रामेयं मम दौहित्री काशिराजसुता प्रभोअस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ॥२२॥
परमं कथ्यतां चेति तां रामः प्रत्यभाषतततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् ॥२३॥
सा चाभिवाद्य चरणौ रामस्य शिरसा शुभास्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥२४॥
रुरोद सा शोकवती बाष्पव्याकुललोचनाप्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥२५॥
राम उवाच
यथासि सृञ्जयस्यास्य तथा मम नृपात्मजेब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ॥२६॥
अम्बोवाचभगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रतशोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो ॥२७॥
भीष्म उवाच
तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनःसौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥२८॥
किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमःइति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥२९॥
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मितासर्वमेव यथातत्त्वं कथयामास भार्गवे ॥३०॥
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदाउवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥३१॥
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनिकरिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः ॥३२॥
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतःधक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा ॥३३॥
अथ वा ते मतिस्तत्र राजपुत्रि निवर्ततेतावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥३४॥
अम्बोवाचविसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दनशाल्वराजगतं चेतो मम पूर्वं मनीषितम् ॥३५॥
सौभराजमुपेत्याहमब्रुवं दुर्वचं वचःन च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः ॥३६॥
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दनयदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥३७॥
ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतःयेनाहं वशमानीता समुत्क्षिप्य बलात्तदा ॥३८॥
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम्प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥३९॥
स हि लुब्धश्च मानी च जितकाशी च भार्गवतस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ ॥४०॥
एष मे ह्रियमाणाया भारतेन तदा विभोअभवद्धृदि संकल्पो घातयेयं महाव्रतम् ॥४१॥
तस्मात्कामं ममाद्येमं राम संवर्तयानघजहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः ॥४२॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 176

0
Adhyaya 176Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0