Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
भीष्म उवाच
आत्मनस्तु ततः सूतो हयानां च विशां पतेमम चापनयामास शल्यान्कुशलसंमतः ॥१॥
स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैःप्रभात उदिते सूर्ये ततो युद्धमवर्तत ॥२॥
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥३॥
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम्धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ॥४॥
अभिवाद्य तथैवाहं रथमारुह्य भारतयुयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥५॥
ततो मां शरवर्षेण महता समवाकिरत्अहं च शरवर्षेण वर्षन्तं समवाकिरम् ॥६॥
संक्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणःप्रेषयामास मे राजन्दीप्तास्यानुरगानिव ॥७॥
तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशःअच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥८॥
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् ॥९॥
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ॥१०॥
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥११॥
ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान्वारुणेनैव रामस्तद्वारयामास मे विभुः ॥१२॥
एवमस्त्राणि दिव्यानि रामस्याहमवारयम्रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः ॥१३॥
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमःउरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः ॥१४॥
ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमेअथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत्गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् ॥१५॥
ततो मामपयातं वै भृशं विद्धमचेतसम्रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुःअकृतव्रणप्रभृतयः काशिकन्या च भारत ॥१६॥
ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम्याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥१७॥
ततो मामवहत्सूतो हयैः परमशोभितैःनृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥१८॥
ततोऽहं राममासाद्य बाणजालेन कौरवअवाकिरं सुसंरब्धः संरब्धं विजिगीषया ॥१९॥
तानापतत एवासौ रामो बाणानजिह्मगान्बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥२०॥
ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताःरामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे ॥२१॥
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम्असृजं जामदग्न्याय रामायाहं जिघांसया ॥२२॥
तेन त्वभिहतो गाढं बाणच्छेदवशं गतःमुमोह सहसा रामो भूमौ च निपपात ह ॥२३॥
ततो हाहाकृतं सर्वं रामे भूतलमाश्रितेजगद्भारत संविग्नं यथार्कपतनेऽभवत् ॥२४॥
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुःतपोधनास्ते सहसा काश्या च भृगुनन्दनम् ॥२५॥
त एनं संपरिष्वज्य शनैराश्वासयंस्तदापाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥२६॥
ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत्तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ॥२७॥
स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवेयेनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः ॥२८॥
हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवेअवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः ॥२९॥
ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम्अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराःरामस्य मम चैवाशु व्योमावृत्य समन्ततः ॥३०॥
न स्म सूर्यः प्रतपति शरजालसमावृतःमातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् ॥३१॥
ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिःअभितापात्स्वभावाच्च पावकः समजायत ॥३२॥
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुनाभूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ॥३३॥
तदा शतसहस्राणि प्रयुतान्यर्बुदानि चअयुतान्यथ खर्वाणि निखर्वाणि च कौरवरामः शराणां संक्रुद्धो मयि तूर्णमपातयत् ॥३४॥
ततोऽहं तानपि रणे शरैराशीविषोपमैःसंछिद्य भूमौ नृपतेऽपातयं पन्नगानिव ॥३५॥
एवं तदभवद्युद्धं तदा भरतसत्तमसंध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥३६॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 181

0
Adhyaya 181Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0