Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
भीष्म उवाच
समागतस्य रामेण पुनरेवातिदारुणम्अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम ॥१॥
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशःअयोजयत धर्मात्मा दिवसे दिवसे विभुः ॥२॥
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारतव्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥३॥
अस्त्रैरस्त्रेषु बहुधा हतेष्वथ च भार्गवःअक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे ॥४॥
ततः शक्तिं प्राहिणोद्घोररूपा;मस्त्रै रुद्धो जामदग्न्यो महात्माकालोत्सृष्टां प्रज्वलितामिवोल्कां; संदीप्ताग्रां तेजसावृत्य लोकान् ॥५॥
ततोऽहं तामिषुभिर्दीप्यमानैः; समायान्तीमन्तकालार्कदीप्ताम्छित्त्वा त्रिधा पातयामास भूमौ; ततो ववौ पवनः पुण्यगन्धिः ॥६॥
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः; शक्तीर्घोराः प्राहिणोद्द्वादशान्याःतासां रूपं भारत नोत शक्यं; तेजस्वित्वाल्लाघवाच्चैव वक्तुम् ॥७॥
किं त्वेवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास्ता महोल्का इवाग्नेःनानारूपास्तेजसोग्रेण दीप्ता; यथादित्या द्वादश लोकसंक्षये ॥८॥
ततो जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन्द्वादशेषून्प्राहिणवं रणेऽहं; ततः शक्तीर्व्यधमं घोररूपाः ॥९॥
ततोऽपरा जामदग्न्यो महात्मा; शक्तीर्घोराः प्राक्षिपद्धेमदण्डाःविचित्रिताः काञ्चनपट्टनद्धा; यथा महोल्का ज्वलितास्तथा ताः ॥१०॥
ताश्चाप्युग्राश्चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्रबाणैर्दिव्यैर्जामदग्न्यस्य संख्ये; दिव्यांश्चाश्वानभ्यवर्षं ससूतान् ॥११॥
निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताःप्रादुश्चक्रे दिव्यमस्त्रं महात्मा; क्रोधाविष्टो हैहयेशप्रमाथी ॥१२॥
ततः श्रेण्यः शलभानामिवोग्राः; समापेतुर्विशिखानां प्रदीप्ताःसमाचिनोच्चापि भृशं शरीरं; हयान्सूतं सरथं चैव मह्यम् ॥१३॥
रथः शरैर्मे निचितः सर्वतोऽभू;त्तथा हयाः सारथिश्चैव राजन्युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तोऽथ भग्नः ॥१४॥
ततस्तस्मिन्बाणवर्षे व्यतीते; शरौघेण प्रत्यवर्षं गुरुं तम्स विक्षतो मार्गणैर्ब्रह्मराशि;र्देहादजस्रं मुमुचे भूरि रक्तम् ॥१५॥
यथा रामो बाणजालाभितप्त;स्तथैवाहं सुभृशं गाढविद्धःततो युद्धं व्यरमच्चापराह्णे; भानावस्तं प्रार्थयाने महीध्रम् ॥१६॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 182

0
Adhyaya 182Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0