Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
युधिष्ठिर उवाच
समागताः पाण्डवाः सृञ्जयाश्च; जनार्दनो युयुधानो विराटःयत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत्सूतपुत्र ॥१॥
संजय उवाच
अजातशत्रुं च वृकोदरं च; धनंजयं माद्रवतीसुतौ चआमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम् ॥२॥
पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम्सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ॥३॥
शमं राजा धृतराष्ट्रोऽभिनन्द;न्नयोजयत्त्वरमाणो रथं मेसभ्रातृपुत्रस्वजनस्य राज्ञ;स्तद्रोचतां पाण्डवानां शमोऽस्तु ॥४॥
सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेनजाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः ॥५॥
न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाःउद्भासते ह्यञ्जनबिन्दुवत्त;च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः ॥६॥
सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयोऽभावसंस्थःकस्तत्कुर्याज्जातु कर्म प्रजान;न्पराजयो यत्र समो जयश्च ॥७॥
ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश्चउपक्रुष्टं जीवितं संत्यजेयु;स्ततः कुरूणां नियतो वै भवः स्यात् ॥८॥
ते चेत्कुरूननुशास्य स्थ पार्था; निनीय सर्वान्द्विषतो निगृह्यसमं वस्तज्जीवितं मृत्युना स्या;द्यज्जीवध्वं ज्ञातिवधे न साधु ॥९॥
को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतबाहुगुप्तान्ससात्यकीन्विषहेत प्रजेतुं; लब्ध्वापि देवान्सचिवान्सहेन्द्रान् ॥१०॥
को वा कुरून्द्रोणभीष्माभिगुप्ता;नश्वत्थाम्ना शल्यकृपादिभिश्चरणे प्रसोढुं विषहेत राज;न्राधेयगुप्तान्सह भूमिपालैः ॥११॥
महद्बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीयमाणःसोऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किंचित् ॥१२॥
कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश्च पार्थाःसोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम् ॥१३॥
कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्न ह्येव ते वचनं वासुदेवो; धनंजयो वा जातु किंचिन्न कुर्यात् ॥१४॥
प्राणानादौ याच्यमानः कुतोऽन्य;देतद्विद्वन्साधनार्थं ब्रवीमिएतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥१५॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 25

0
Adhyaya 25Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0