Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
संजय उवाच
धर्मे नित्या पाण्डव ते विचेष्टा; लोके श्रुता दृश्यते चापि पार्थमहास्रावं जीवितं चाप्यनित्यं; संपश्य त्वं पाण्डव मा विनीनशः ॥१॥
न चेद्भागं कुरवोऽन्यत्र युद्धा;त्प्रयच्छन्ते तुभ्यमजातशत्रोभैक्षचर्यामन्धकवृष्णिराज्ये; श्रेयो मन्ये न तु युद्धेन राज्यम् ॥२॥
अल्पकालं जीवितं यन्मनुष्ये; महास्रावं नित्यदुःखं चलं चभूयश्च तद्वयसो नानुरूपं; तस्मात्पापं पाण्डव मा प्रसार्षीः ॥३॥
कामा मनुष्यं प्रसजन्त एव; धर्मस्य ये विघ्नमूलं नरेन्द्रपूर्वं नरस्तान्धृतिमान्विनिघ्नँ;ल्लोके प्रशंसां लभतेऽनवद्याम् ॥४॥
निबन्धनी ह्यर्थतृष्णेह पार्थ; तामेषतो बाध्यते धर्म एवधर्मं तु यः प्रवृणीते स बुद्धः; कामे गृद्धो हीयतेऽर्थानुरोधात् ॥५॥
धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भातिहानेन धर्मस्य महीमपीमां; लब्ध्वा नरः सीदति पापबुद्धिः ॥६॥
वेदोऽधीतश्चरितं ब्रह्मचर्यं; यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम्परं स्थानं मन्यमानेन भूय; आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥७॥
सुखप्रिये सेवमानोऽतिवेलं; योगाभ्यासे यो न करोति कर्मवित्तक्षये हीनसुखोऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः ॥८॥
एवं पुनरर्थचर्याप्रसक्तो; हित्वा धर्मं यः प्रकरोत्यधर्मम्अश्रद्दधत्परलोकाय मूढो; हित्वा देहं तप्यते प्रेत्य मन्दः ॥९॥
न कर्मणां विप्रणाशोऽस्त्यमुत्र; पुण्यानां वाप्यथ वा पापकानाम्पूर्वं कर्तुर्गच्छति पुण्यपापं; पश्चात्त्वेतदनुयात्येव कर्ता ॥१०॥
न्यायोपेतं ब्राह्मणेभ्यो यदन्नं; श्रद्धापूतं गन्धरसोपपन्नम्अन्वाहार्येषूत्तमदक्षिणेषु; तथारूपं कर्म विख्यायते ते ॥११॥
इह क्षेत्रे क्रियते पार्थ कार्यं; न वै किंचिद्विद्यते प्रेत्य कार्यम्कृतं त्वया पारलोक्यं च कार्यं; पुण्यं महत्सद्भिरनुप्रशस्तम् ॥१२॥
जहाति मृत्युं च जरां भयं च; न क्षुत्पिपासे मनसश्चाप्रियाणिन कर्तव्यं विद्यते तत्र किंचि;दन्यत्र वै इन्द्रियप्रीणनार्थात् ॥१३॥
एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य प्रियेणस क्रोधजं पाण्डव हर्षजं च; लोकावुभौ मा प्रहासीश्चिराय ॥१४॥
अन्तं गत्वा कर्मणां या प्रशंसा; सत्यं दमश्चार्जवमानृशंस्यम्अश्वमेधो राजसूयस्तथेष्टः; पापस्यान्तं कर्मणो मा पुनर्गाः ॥१५॥
तच्चेदेवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिरायनिवसध्वं वर्षपूगान्वनेषु; दुःखं वासं पाण्डवा धर्महेतोः ॥१६॥
अप्रव्रज्ये योजयित्वा पुरस्ता;दात्माधीनं यद्बलं ते तदासीत्नित्यं पाञ्चालाः सचिवास्तवेमे; जनार्दनो युयुधानश्च वीरः ॥१७॥
मत्स्यो राजा रुक्मरथः सपुत्रः; प्रहारिभिः सह पुत्रैर्विराटःराजानश्च ये विजिताः पुरस्ता;त्त्वामेव ते संश्रयेयुः समस्ताः ॥१८॥
महासहायः प्रतपन्बलस्थः; पुरस्कृतो वासुदेवार्जुनाभ्याम्वरान्हनिष्यन्द्विषतो रङ्गमध्ये; व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥१९॥
बलं कस्माद्वर्धयित्वा परस्य; निजान्कस्मात्कर्शयित्वा सहायान्निरुष्य कस्माद्वर्षपूगान्वनेषु; युयुत्ससे पाण्डव हीनकालम् ॥२०॥
अप्रज्ञो वा पाण्डव युध्यमानो; अधर्मज्ञो वा भूतिपथाद्व्यपैतिप्रज्ञावान्वा बुध्यमानोऽपि धर्मं; संरम्भाद्वा सोऽपि भूतेरपैति ॥२१॥
नाधर्मे ते धीयते पार्थ बुद्धि;र्न संरम्भात्कर्म चकर्थ पापम्अद्धा किं तत्कारणं यस्य हेतोः; प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥२२॥
अव्याधिजं कटुकं शीर्षरोगं; यशोमुषं पापफलोदयं चसतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ॥२३॥
पापानुबन्धं को नु तं कामयेत; क्षमैव ते ज्यायसी नोत भोगाःयत्र भीष्मः शांतनवो हतः स्या;द्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥२४॥
कृपः शल्यः सौमदत्तिर्विकर्णो; विविंशतिः कर्णदुर्योधनौ चएतान्हत्वा कीदृशं तत्सुखं स्या;द्यद्विन्देथास्तदनुब्रूहि पार्थ ॥२५॥
लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि त्वं प्रजह्याःप्रियाप्रिये सुखदुःखे च राज;न्नेवं विद्वान्नैव युद्धं कुरुष्व ॥२६॥
अमात्यानां यदि कामस्य हेतो;रेवंयुक्तं कर्म चिकीर्षसि त्वम्अपाक्रमेः संप्रदाय स्वमेभ्यो; मा गास्त्वं वै देवयानात्पथोऽद्य ॥२७॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 27

0
Adhyaya 27Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0