Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
वासुदेव उवाच
अविनाशं संजय पाण्डवाना;मिच्छाम्यहं भूतिमेषां प्रियं चतथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम् ॥१॥
कामो हि मे संजय नित्यमेव; नान्यद्ब्रूयां तान्प्रति शाम्यतेतिराज्ञश्च हि प्रियमेतच्छृणोमि; मन्ये चैतत्पाण्डवानां समर्थम् ॥२॥
सुदुष्करश्चात्र शमो हि नूनं; प्रदर्शितः संजय पाण्डवेनयस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः; कस्मादेषां कलहो नात्र मूर्च्छेत् ॥३॥
तत्त्वं धर्मं विचरन्संजयेह; मत्तश्च जानासि युधिष्ठिराच्चअथो कस्मात्संजय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्मयथाख्यातमावसतः कुटुम्बं; पुराकल्पात्साधु विलोपमात्थ ॥४॥
अस्मिन्विधौ वर्तमाने यथाव;दुच्चावचा मतयो ब्राह्मणानाम्कर्मणाहुः सिद्धिमेके परत्र; हित्वा कर्म विद्यया सिद्धिमेकेनाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये;द्विद्वानपीह विदितं ब्राह्मणानाम् ॥५॥
या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम्तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णयार्तः ॥६॥
सोऽयं विधिर्विहितः कर्मणैव; तद्वर्तते संजय तत्र कर्मतत्र योऽन्यत्कर्मणः साधु मन्ये;न्मोघं तस्य लपितं दुर्बलस्य ॥७॥
कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वाअहोरात्रे विदधत्कर्मणैव; अतन्द्रितो नित्यमुदेति सूर्यः ॥८॥
मासार्धमासानथ नक्षत्रयोगा;नतन्द्रितश्चन्द्रमा अभ्युपैतिअतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥९॥
अतन्द्रिता भारमिमं महान्तं; बिभर्ति देवी पृथिवी बलेनअतन्द्रिताः शीघ्रमपो वहन्ति; संतर्पयन्त्यः सर्वभूतानि नद्यः ॥१०॥
अतन्द्रितो वर्षति भूरितेजाः; संनादयन्नन्तरिक्षं दिवं चअतन्द्रितो ब्रह्मचर्यं चचार; श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥११॥
हित्वा सुखं मनसश्च प्रियाणि; तेन शक्रः कर्मणा श्रैष्ठ्यमापसत्यं धर्मं पालयन्नप्रमत्तो; दमं तितिक्षां समतां प्रियं चएतानि सर्वाण्युपसेवमानो; देवराज्यं मघवान्प्राप मुख्यम् ॥१२॥
बृहस्पतिर्ब्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत्हित्वा सुखं प्रतिरुध्येन्द्रियाणि; तेन देवानामगमद्गौरवं सः ॥१३॥
नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवोऽथापि विश्वेयमो राजा वैश्रवणः कुबेरो; गन्धर्वयक्षाप्सरसश्च शुभ्राःब्रह्मचर्यं वेदविद्याः क्रियाश्च; निषेवमाणा मुनयोऽमुत्र भान्ति ॥१४॥
जानन्निमं सर्वलोकस्य धर्मं; ब्राह्मणानां क्षत्रियाणां विशां चस कस्मात्त्वं जानतां ज्ञानवान्स;न्व्यायच्छसे संजय कौरवार्थे ॥१५॥
आम्नायेषु नित्यसंयोगमस्य; तथाश्वमेधे राजसूये च विद्धिसंयुज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश्च भूयः ॥१६॥
ते चेदिमे कौरवाणामुपाय;मधिगच्छेयुरवधेनैव पार्थाःधर्मत्राणं पुण्यमेषां कृतं स्या;दार्ये वृत्ते भीमसेनं निगृह्य ॥१७॥
ते चेत्पित्र्ये कर्मणि वर्तमाना; आपद्येरन्दिष्टवशेन मृत्युम्यथाशक्त्या पूरयन्तः स्वकर्म; तदप्येषां निधनं स्यात्प्रशस्तम् ॥१८॥
उताहो त्वं मन्यसे सर्वमेव; राज्ञां युद्धे वर्तते धर्मतन्त्रम्अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचमिमां शृणोमि ॥१९॥
चातुर्वर्ण्यस्य प्रथमं विभाग;मवेक्ष्य त्वं संजय स्वं च कर्मनिशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस्ते ॥२०॥
अधीयीत ब्राह्मणोऽथो यजेत; दद्यादियात्तीर्थमुख्यानि चैवअध्यापयेद्याजयेच्चापि याज्या;न्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् ॥२१॥
तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वायज्ञैरिष्ट्वा सर्ववेदानधीत्य; दारान्कृत्वा पुण्यकृदावसेद्गृहान् ॥२२॥
वैश्योऽधीत्य कृषिगोरक्षपण्यै;र्वित्तं चिन्वन्पालयन्नप्रमत्तःप्रियं कुर्वन्ब्राह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृदावसेद्गृहान् ॥२३॥
परिचर्या वन्दनं ब्राह्मणानां; नाधीयीत प्रतिषिद्धोऽस्य यज्ञःनित्योत्थितो भूतयेऽतन्द्रितः स्या;देष स्मृतः शूद्रधर्मः पुराणः ॥२४॥
एतान्राजा पालयन्नप्रमत्तो; नियोजयन्सर्ववर्णान्स्वधर्मेअकामात्मा समवृत्तिः प्रजासु; नाधार्मिकाननुरुध्येत कामान् ॥२५॥
श्रेयांस्तस्माद्यदि विद्येत कश्चि;दभिज्ञातः सर्वधर्मोपपन्नःस तं दुष्टमनुशिष्यात्प्रजान;न्न चेद्गृध्येदिति तस्मिन्न साधु ॥२६॥
यदा गृध्येत्परभूमिं नृशंसो; विधिप्रकोपाद्बलमाददानःततो राज्ञां भविता युद्धमेत;त्तत्र जातं वर्म शस्त्रं धनुश्चइन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश्च ॥२७॥
स्तेनो हरेद्यत्र धनं ह्यदृष्टः; प्रसह्य वा यत्र हरेत दृष्टःउभौ गर्ह्यौ भवतः संजयैतौ; किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रेयोऽयं लोभान्मन्यते धर्ममेतं; यमिच्छते मन्युवशानुगामी ॥२८॥
भागः पुनः पाण्डवानां निविष्ट;स्तं नोऽकस्मादाददीरन्परे वैअस्मिन्पदे युध्यतां नो वधोऽपि; श्लाघ्यः पित्र्यः परराज्याद्विशिष्टःएतान्धर्मान्कौरवाणां पुराणा;नाचक्षीथाः संजय राज्यमध्ये ॥२९॥
ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाःइदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम् ॥३०॥
प्रियां भार्यां द्रौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तोपपन्नाम्यदुपेक्षन्त कुरवो भीष्ममुख्याः; कामानुगेनोपरुद्धां रुदन्तीम् ॥३१॥
तं चेत्तदा ते सकुमारवृद्धा; अवारयिष्यन्कुरवः समेताःमम प्रियं धृतराष्ट्रोऽकरिष्य;त्पुत्राणां च कृतमस्याभविष्यत् ॥३२॥
दुःशासनः प्रातिलोम्यान्निनाय; सभामध्ये श्वशुराणां च कृष्णाम्सा तत्र नीता करुणान्यवोच;न्नान्यं क्षत्तुर्नाथमदृष्ट कंचित् ॥३३॥
कार्पण्यादेव सहितास्तत्र राज्ञो; नाशक्नुवन्प्रतिवक्तुं सभायाम्एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो; धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् ॥३४॥
अनुक्त्वा त्वं धर्ममेवं सभाया;मथेच्छसे पाण्डवस्योपदेष्टुम्कृष्णा त्वेतत्कर्म चकार शुद्धं; सुदुष्करं तद्धि सभां समेत्ययेन कृच्छ्रात्पाण्डवानुज्जहार; तथात्मानं नौरिव सागरौघात् ॥३५॥
यत्राब्रवीत्सूतपुत्रः सभायां; कृष्णां स्थितां श्वशुराणां समीपेन ते गतिर्विद्यते याज्ञसेनि; प्रपद्येदानीं धार्तराष्ट्रस्य वेश्मपराजितास्ते पतयो न सन्ति; पतिं चान्यं भामिनि त्वं वृणीष्व ॥३६॥
यो बीभत्सोर्हृदये प्रौढ आसी;दस्थिप्रच्छिन्मर्मघाती सुघोरःकर्णाच्छरो वाङ्मयस्तिग्मतेजाः; प्रतिष्ठितो हृदये फल्गुनस्य ॥३७॥
कृष्णाजिनानि परिधित्समाना;न्दुःशासनः कटुकान्यभ्यभाषत्एते सर्वे षण्ढतिला विनष्टाः; क्षयं गता नरकं दीर्घकालम् ॥३८॥
गान्धारराजः शकुनिर्निकृत्या; यदब्रवीद्द्यूतकाले स पार्थान्पराजितो नकुलः किं तवास्ति; कृष्णया त्वं दीव्य वै याज्ञसेन्या ॥३९॥
जानासि त्वं संजय सर्वमेत;द्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम्स्वयं त्वहं प्रार्थये तत्र गन्तुं; समाधातुं कार्यमेतद्विपन्नम् ॥४०॥
अहापयित्वा यदि पाण्डवार्थं; शमं कुरूणामथ चेच्चरेयम्पुण्यं च मे स्याच्चरितं महोदयं; मुच्येरंश्च कुरवो मृत्युपाशात् ॥४१॥
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम्अवेक्षेरन्धार्तराष्ट्राः समक्षं; मां च प्राप्तं कुरवः पूजयेयुः ॥४२॥
अतोऽन्यथा रथिना फल्गुनेन; भीमेन चैवाहवदंशितेनपरासिक्तान्धार्तराष्ट्रांस्तु विद्धि; प्रदह्यमानान्कर्मणा स्वेन मन्दान् ॥४३॥
पराजितान्पाण्डवेयांस्तु वाचो; रौद्ररूपा भाषते धार्तराष्ट्रःगदाहस्तो भीमसेनोऽप्रमत्तो; दुर्योधनं स्मारयित्वा हि काले ॥४४॥
सुयोधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाःदुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥४५॥
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाःमाद्रीपुत्रौ पुष्पफले समृद्धे; मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥४६॥
वनं राजा धृतराष्ट्रः सपुत्रो; व्याघ्रा वने संजय पाण्डवेयाःमा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥४७॥
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् ॥४८॥
लताधर्मा धार्तराष्ट्राः शालाः संजय पाण्डवाःन लता वर्धते जातु अनाश्रित्य महाद्रुमम् ॥४९॥
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाःयत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥५०॥
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणःयोधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् ॥५१॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 29

0
Adhyaya 29Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0