Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
सात्यकिरुवाचयादृशः पुरुषस्यात्मा तादृशं संप्रभाषतेयथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ॥१॥
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथाउभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥२॥
एकस्मिन्नेव जायेते कुले क्लीबमहारथौफलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥३॥
नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वजये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥४॥
कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥५॥
समाहूय महात्मानं जितवन्तोऽक्षकोविदाःअनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ॥६॥
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सहअभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥७॥
समाहूय तु राजानं क्षत्रधर्मरतं सदानिकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥८॥
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ॥९॥
यद्ययं परवित्तानि कामयेत युधिष्ठिरःएवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥१०॥
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवःनिवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति ॥११॥
अनुनीता हि भीष्मेण द्रोणेन च महात्मनान व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥१२॥
अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात्पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥१३॥
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतःगमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥१४॥
न हि ते युयुधानस्य संरब्धस्य युयुत्सतःवेगं समर्थाः संसोढुं वज्रस्येव महीधराः ॥१५॥
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधिमां चापि विषहेत्को नु कश्च भीमं दुरासदम् ॥१६॥
यमौ च दृढधन्वानौ यमकल्पौ महाद्युतीको जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् ॥१७॥
पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान्समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ॥१८॥
सौभद्रं च महेष्वासममरैरपि दुःसहम्गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् ॥१९॥
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सहकर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् ॥२०॥
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनःअधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ॥२१॥
हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताःनिसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ॥२२॥
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरःनिहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥२३॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 3

0
Adhyaya 3Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0