Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
युधिष्ठिर उवाच
उत सन्तमसन्तं च बालं वृद्धं च संजयउताबलं बलीयांसं धाता प्रकुरुते वशे ॥१॥
उत बालाय पाण्डित्यं पण्डितायोत बालताम्ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥२॥
अलं विज्ञापनाय स्यादाचक्षीथा यथातथम्अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत् ॥३॥
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम्अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम् ॥४॥
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम्तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥५॥
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिंदमराज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः ॥६॥
सर्वमप्येतदेकस्य नालं संजय कस्यचित्तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः ॥७॥
तथा भीष्मं शांतनवं भारतानां पितामहम्शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन् ॥८॥
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहःभवता शंतनोर्वंशो निमग्नः पुनरुद्धृतः ॥९॥
स त्वं कुरु तथा तात स्वमतेन पितामहयथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥१०॥
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः ॥११॥
अथो सुयोधनं ब्रूया राजपुत्रममर्षणम्मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥१२॥
अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम्तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥१३॥
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाःयथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः ॥१४॥
यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान्तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥१५॥
यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत्दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥१६॥
यथोचितं स्वकं भागं लभेमहि परंतपनिवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ ॥१७॥
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम्राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥१८॥
कुशस्थलं वृकस्थलमासन्दी वारणावतम्अवसानं भवेदत्र किंचिदेव तु पञ्चमम् ॥१९॥
भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधनशान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजय ॥२०॥
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥२१॥
अक्षतान्कुरुपाञ्चालान्पश्येम इति कामयेसर्वे सुमनसस्तात शाम्याम भरतर्षभ ॥२२॥
अलमेव शमायास्मि तथा युद्धाय संजयधर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥२३॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 31

0
Adhyaya 31Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0