Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
द्रुपद उवाच
एवमेतन्महाबाहो भविष्यति न संशयःन हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥१॥
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियःभीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥२॥
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यतेएतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥३॥
न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथंचनन हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥४॥
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत्मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥५॥
मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम्जितमर्थं विजानीयादबुधो मार्दवे सति ॥६॥
एतच्चैव करिष्यामो यत्नश्च क्रियतामिहप्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥७॥
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोःकेकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥८॥
स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशःपूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् ॥९॥
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदनेमहद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥१०॥
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाःभगदत्ताय राज्ञे च पूर्वसागरवासिने ॥११॥
अमितौजसे तथोग्राय हार्दिक्यायाहुकाय चदीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो ॥१२॥
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवःपापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥१३॥
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव चसुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥१४॥
शकानां पह्लवानां च दरदानां च ये नृपाःकाम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये ॥१५॥
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाःक्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥१६॥
जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकःपांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥१७॥
औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥१८॥
बृहद्बलो महौजाश्च बाहुः परपुरंजयःसमुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥१९॥
अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवःसमर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा ॥२०॥
महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथःनीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ॥२१॥
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयःआषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ॥२२॥
भूरितेजा देवकश्च एकलव्यस्य चात्मजःकारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ॥२३॥
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवःश्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् ॥२४॥
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदःएतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ॥२५॥
अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितःप्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् ॥२६॥
यथा दुर्योधनो वाच्यो यथा शांतनवो नृपःधृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः ॥२७॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 4

0
Adhyaya 4Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0