Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
वैशंपायन उवाच
ततो राजा धृतराष्ट्रो मनीषी; संपूज्य वाक्यं विदुरेरितं तत्सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन् ॥१॥
धृतराष्ट्र उवाच
सनत्सुजात यदीदं शृणोमि; मृत्युर्हि नास्तीति तवोपदेशम्देवासुरा ह्याचरन्ब्रह्मचर्य;ममृत्यवे तत्कतरन्नु सत्यम् ॥२॥
सनत्सुजात उवाच
अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरेशृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥३॥
उभे सत्ये क्षत्रियाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम्प्रमादं वै मृत्युमहं ब्रवीमि; सदाप्रमादममृतत्वं ब्रवीमि ॥४॥
प्रमादाद्वै असुराः पराभव;न्नप्रमादाद्ब्रह्मभूता भवन्तिन वै मृत्युर्व्याघ्र इवात्ति जन्तू;न्न ह्यस्य रूपमुपलभ्यते ह ॥५॥
यमं त्वेके मृत्युमतोऽन्यमाहु;रात्मावसन्नममृतं ब्रह्मचर्यम्पितृलोके राज्यमनुशास्ति देवः; शिवः शिवानामशिवोऽशिवानाम् ॥६॥
आस्यादेष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश्च मृत्युःते मोहितास्तद्वशे वर्तमाना; इतः प्रेतास्तत्र पुनः पतन्ति ॥७॥
ततस्तं देवा अनु विप्लवन्ते; अतो मृत्युर्मरणाख्यामुपैतिकर्मोदये कर्मफलानुरागा;स्तत्रानु यान्ति न तरन्ति मृत्युम् ॥८॥
योऽभिध्यायन्नुत्पतिष्णून्निहन्या;दनादरेणाप्रतिबुध्यमानःस वै मृत्युर्मृत्युरिवात्ति भूत्वा; एवं विद्वान्यो विनिहन्ति कामान् ॥९॥
कामानुसारी पुरुषः कामाननु विनश्यतिकामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः ॥१०॥
तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यतेगृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥११॥
अभिध्या वै प्रथमं हन्ति चैनं; कामक्रोधौ गृह्य चैनं तु पश्चात्एते बालान्मृत्यवे प्रापयन्ति; धीरास्तु धैर्येण तरन्ति मृत्युम् ॥१२॥
अमन्यमानः क्षत्रिय किंचिदन्य;न्नाधीयते तार्ण इवास्य व्याघ्रःक्रोधाल्लोभान्मोहमयान्तरात्मा; स वै मृत्युस्त्वच्छरीरे य एषः ॥१३॥
एवं मृत्युं जायमानं विदित्वा; ज्ञाने तिष्ठन्न बिभेतीह मृत्योःविनश्यते विषये तस्य मृत्यु;र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥१४॥
धृतराष्ट्र उवाच
येऽस्मिन्धर्मान्नाचरन्तीह केचि;त्तथा धर्मान्केचिदिहाचरन्तिधर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम् ॥१५॥
सनत्सुजात उवाच
उभयमेव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य चधर्मेणाधर्मं प्रणुदतीह विद्वा;न्धर्मो बलीयानिति तस्य विद्धि ॥१६॥
धृतराष्ट्र उवाच
यानिमानाहुः स्वस्य धर्मस्य लोका;न्द्विजातीनां पुण्यकृतां सनातनान्तेषां परिक्रमान्कथयन्तस्ततोऽन्या;न्नैतद्विद्वन्नैव कृतं च कर्म ॥१७॥
सनत्सुजात उवाच
येषां बले न विस्पर्धा बले बलवतामिवते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ॥१८॥
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम्अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसंज्वरेत् ॥१९॥
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥२०॥
यो वाकथयमानस्य आत्मानं नानुसंज्वरेत्ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ॥२१॥
यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतयेएवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ॥२२॥
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणःज्ञातीनां तु वसन्मध्ये नैव विद्येत किंचन ॥२३॥
को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हतितस्माद्धि किंचित्क्षत्रिय ब्रह्मावसति पश्यति ॥२४॥
अश्रान्तः स्यादनादानात्संमतो निरुपद्रवःशिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥२५॥
अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाःते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ॥२६॥
सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चनन समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ॥२७॥
यमप्रयतमानं तु मानयन्ति स मानितःन मान्यमानो मन्येत नामानादभिसंज्वरेत् ॥२८॥
विद्वांसो मानयन्तीह इति मन्येत मानितःअधर्मविदुषो मूढा लोकशास्त्रविशारदाःन मान्यं मानयिष्यन्ति इति मन्येदमानितः ॥२९॥
न वै मानं च मौनं च सहितौ चरतः सदाअयं हि लोको मानस्य असौ मानस्य तद्विदुः ॥३०॥
श्रीः सुखस्येह संवासः सा चापि परिपन्थिनीब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥३१॥
द्वाराणि तस्या हि वदन्ति सन्तो; बहुप्रकाराणि दुरावराणिसत्यार्जवे ह्रीर्दमशौचविद्याः; षण्मानमोहप्रतिबाधनानि ॥३२॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 42

0
Adhyaya 42Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0