Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
वैशंपायन उवाच
तथा तु पृच्छन्तमतीव पार्था;न्वैचित्रवीर्यं तमचिन्तयित्वाउवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन्संसदि कौरवाणाम् ॥१॥
मिथ्या प्रतिज्ञाय मया यदस्त्रं; रामाद्धृतं ब्रह्मपुरं पुरस्तात्विज्ञाय तेनास्मि तदैवमुक्त;स्तवान्तकालेऽप्रतिभास्यतीति ॥२॥
महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तःशक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः ॥३॥
प्रसादितं ह्यस्य मया मनोऽभू;च्छुश्रूषया स्वेन च पौरुषेणततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः ॥४॥
निमेषमात्रं तमृषिप्रसाद;मवाप्य पाञ्चालकरूषमत्स्यान्निहत्य पार्थांश्च सपुत्रपौत्राँ;ल्लोकानहं शस्त्रजितान्प्रपत्स्ये ॥५॥
पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याःयथाप्रधानेन बलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः ॥६॥
एवं ब्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतबुद्धेन कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः ॥७॥
यत्खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनंजयेनश्रुत्वैव तत्कर्म नियन्तुमात्मा; शक्यस्त्वया वै सह बान्धवेन ॥८॥
यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रःभस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन ॥९॥
यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रयत्नात्स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम् ॥१०॥
बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवःयस्त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे ॥११॥
कर्ण उवाच
असंशयं वृष्णिपतिर्यथोक्त;स्तथा च भूयश्च ततो महात्माअहं यदुक्तः परुषं तु किंचि;त्पितामहस्तस्य फलं शृणोतु ॥१२॥
न्यस्यामि शस्त्राणि न जातु संख्ये; पितामहो द्रक्ष्यति मां सभायाम्त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥१३॥
वैशंपायन उवाच
इत्येवमुक्त्वा स महाधनुष्मा;न्हित्वा सभां स्वं भवनं जगामभीष्मस्तु दुर्योधनमेव राज;न्मध्ये कुरूणां प्रहसन्नुवाच ॥१४॥
सत्यप्रतिज्ञः किल सूतपुत्र;स्तथा स भारं विषहेत कस्मात्व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात् ॥१५॥
आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके चअहं हनिष्यामि सदा परेषां; सहस्रशश्चायुतशश्च योधान् ॥१६॥
यदैव रामे भगवत्यनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम्तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य ॥१७॥
अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णेवैचित्रवीर्यस्य सुतोऽल्पबुद्धि;र्दुर्योधनः शांतनवं बभाषे ॥१८॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 61

0
Adhyaya 61Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0