Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
दुर्योधन उवाच
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥१॥
सर्वे स्म समजातीयाः सर्वे मानुषयोनयःपितामह विजानीषे पार्थेषु विजयं कथम् ॥२॥
नाहं भवति न द्रोणे न कृपे न च बाह्लिकेअन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ॥३॥
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मेपाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ॥४॥
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैःब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ॥५॥
विदुर उवाच
शकुनीनामिहार्थाय पाशं भूमावयोजयत्कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम ॥६॥
तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौतावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥७॥
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदाअन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥८॥
तथा तमनुधावन्तं मृगयुं शकुनार्थिनम्आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥९॥
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम्श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ॥१०॥
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मेप्लवमानौ हि खचरौ पदातिरनुधावसि ॥११॥
शाकुनिक उवाच
पाशमेकमुभावेतौ सहितौ हरतो ममयत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥१२॥
विदुर उवाच
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसंधितौविगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः ॥१३॥
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौउपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा ॥१४॥
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम्तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ॥१५॥
संभोजनं संकथनं संप्रश्नोऽथ समागमःएतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥१६॥
यस्मिन्काले सुमनसः सर्वे वृद्धानुपासतेसिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥१७॥
येऽर्थं संततमासाद्य दीना इव समासतेश्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥१८॥
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि चधृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥१९॥
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मयाश्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥२०॥
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम्ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः ॥२१॥
कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम्दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥२२॥
तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम्मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् ॥२३॥
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम्यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति ॥२४॥
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवाइति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥२५॥
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपतेविनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥२६॥
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छतिमधु पश्यति संमोहात्प्रपातं नानुपश्यति ॥२७॥
दुर्योधनो योद्धुमनाः समरे सव्यसाचिनान च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् ॥२८॥
एकेन रथमास्थाय पृथिवी येन निर्जिताप्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥२९॥
द्रुपदो मत्स्यराजश्च संक्रुद्धश्च धनंजयःन शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥३०॥
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम्युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ॥३१॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 62

0
Adhyaya 62Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0