Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
अर्जुन उवाच
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमःसंबन्धी दयितो नित्यमुभयोः पक्षयोरपि ॥१॥
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव ॥२॥
त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम्शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन् ॥३॥
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्हितं नादास्यते बालो दिष्टस्य वशमेष्यति ॥४॥
भगवानुवाचधर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ॥५॥
वैशंपायन उवाच
ततो व्यपेते तमसि सूर्ये विमल उद्गतेमैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे ॥६॥
कौमुदे मासि रेवत्यां शरदन्ते हिमागमेस्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः ॥७॥
मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताःब्राह्मणानां प्रतीतानामृषीणामिव वासवः ॥८॥
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलंकृतःउपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥९॥
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य चअग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ॥१०॥
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनःशिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ॥११॥
रथ आरोप्यतां शङ्खश्चक्रं च गदया सहउपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ॥१२॥
दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलःन च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा ॥१३॥
ततस्तन्मतमाज्ञाय केशवस्य पुरःसराःप्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः ॥१४॥
तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम्चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम् ॥१५॥
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिःपुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ॥१६॥
तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम्मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ॥१७॥
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ॥१८॥
वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैःस्नातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा ॥१९॥
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ॥२०॥
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम्आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् ॥२१॥
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमःपृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ॥२२॥
व्यपोढाभ्रघनः कालः क्षणेन समपद्यतशिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ॥२३॥
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणःप्रयाणे वासुदेवस्य बभूवुरनुयायिनः ॥२४॥
मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशःसारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ॥२५॥
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकःप्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ॥२६॥
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथःशुक्रनारदवाल्मीका मरुतः कुशिको भृगुः ॥२७॥
ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम्प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ॥२८॥
एवमेतैर्महाभागैर्महर्षिगणसाधुभिःपूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ॥२९॥
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरःभीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ॥३०॥
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपःद्रुपदः काशिराजश्च शिखण्डी च महारथः ॥३१॥
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सहसंसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ॥३२॥
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरःराज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ॥३३॥
यो नैव कामान्न भयान्न लोभान्नार्थकारणात्अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ॥३४॥
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवःईश्वरः सर्वभूतानां देवदेवः प्रतापवान् ॥३५॥
तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम्संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे ॥३६॥
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबलाउपवासतपःशीला सदा स्वस्त्ययने रता ॥३७॥
देवतातिथिपूजासु गुरुशुश्रूषणे रतावत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन ॥३८॥
सुयोधनभयाद्या नोऽत्रायतामित्रकर्शनमहतो मृत्युसंबाधादुत्तरन्नौरिवार्णवात् ॥३९॥
अस्मत्कृते च सततं यया दुःखानि माधवअनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् ॥४०॥
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम्अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन् ॥४१॥
ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदमनिकारानतदर्हा च पश्यन्ती दुःखमश्नुते ॥४२॥
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययःयदहं मातरं क्लिष्टां सुखे दध्यामरिंदम ॥४३॥
प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनीरुदतीमपहायैनामुपगच्छाम यद्वनम् ॥४४॥
न नूनं म्रियते दुःखैः सा चेज्जीवति केशवतथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता ॥४५॥
अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभोधृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः ॥४६॥
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम्द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ॥४७॥
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन ॥४८॥
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरःअनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥४९॥
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम्अब्रवीत्परवीरघ्नं दाशार्हमपराजितम् ॥५०॥
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चयेअर्धराज्यस्य गोविन्द विदितं सर्वराजसु ॥५१॥
तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य चप्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥५२॥
अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित्अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ॥५३॥
एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरःमुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ॥५४॥
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान्धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥५५॥
तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनःवाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ॥५६॥
इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम्अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥५७॥
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनःतूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः ॥५८॥
ते हया वासुदेवस्य दारुकेण प्रचोदिताःपन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ॥५९॥
अथापश्यन्महाबाहुरृषीनध्वनि केशवःब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥६०॥
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनःयथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् ॥६१॥
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितःब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ॥६२॥
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनःभगवन्तः क्व संसिद्धाः का वीथी भवतामिह ॥६३॥
किं वा भगवतां कार्यमहं किं करवाणि वःकेनार्थेनोपसंप्राप्ता भगवन्तो महीतलम् ॥६४॥
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्परिष्वज्य च गोविन्दं पुरा सुचरिते सखा ॥६५॥
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताःराजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः ॥६६॥
देवासुरस्य द्रष्टारः पुराणस्य महाद्युतेसमेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः ॥६७॥
सभासदश्च राजानस्त्वां च सत्यं जनार्दनएतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव ॥६८॥
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधवत्वयोच्यमानाः कुरुषु राजमध्ये परंतप ॥६९॥
भीष्मद्रोणादयश्चैव विदुरश्च महामतिःत्वं च यादवशार्दूल सभायां वै समेष्यथ ॥७०॥
तव वाक्यानि दिव्यानि तत्र तेषां च माधवश्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च ॥७१॥
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम्याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् ॥७२॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 81

0
Adhyaya 81Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0