Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
वैशंपायन उवाच
तस्मिन्नभिहिते वाक्ये केशवेन महात्मनास्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ॥१॥
कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान्इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ॥२॥
तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसुजामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ॥३॥
इमामेकोपमां राजञ्शृणु सत्यामशङ्कितःतां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥४॥
राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत्अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ॥५॥
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान्ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः ॥६॥
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधिशूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् ॥७॥
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम्दर्पेण महता मत्तः कंचिदन्यमचिन्तयन् ॥८॥
तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाःप्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥९॥
प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान्अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा ॥१०॥
तपस्विनो महात्मानो वेदव्रतसमन्विताःउदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ॥११॥
अनेकजननं सख्यं ययोः पुरुषसिंहयोःतयोस्त्वं न समो राजन्भवितासि कदाचन ॥१२॥
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान्क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ ॥१३॥
ब्राह्मणा ऊचुःनरो नारायणश्चैव तापसाविति नः श्रुतम्आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव ॥१४॥
श्रूयते तौ महात्मानौ नरनारायणावुभौतपो घोरमनिर्देश्यं तप्येते गन्धमादने ॥१५॥
राम उवाच
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ ॥१६॥
स गत्वा विषमं घोरं पर्वतं गन्धमादनम्मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ ॥१७॥
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौशीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौअभिगम्योपसंगृह्य पर्यपृच्छदनामयम् ॥१८॥
तमर्चित्वा मूलफलैरासनेनोदकेन चन्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ॥१९॥
दम्भोद्भव उवाच
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवःभवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति ॥२०॥
नरनारायणावूचतुःअपेतक्रोधलोभोऽयमाश्रमो राजसत्तमन ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुःअन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ ॥२१॥
राम उवाच
उच्यमानस्तथापि स्म भूय एवाभ्यभाषतपुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारतदम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ॥२२॥
ततो नरस्त्विषीकाणां मुष्टिमादाय कौरवअब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय ॥२३॥
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ॥२४॥
दम्भोद्भव उवाच
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसेएतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ॥२५॥
राम उवाच
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत्दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः ॥२६॥
तस्य तानस्यतो घोरानिषून्परतनुच्छिदःकदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् ॥२७॥
ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितःअस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत् ॥२८॥
तेषामक्षीणि कर्णांश्च नस्तकांश्चैव माययानिमित्तवेधी स मुनिरिषीकाभिः समर्पयत् ॥२९॥
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम्पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् ॥३०॥
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम्ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ॥३१॥
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचनअल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् ॥३२॥
कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान्दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव ॥३३॥
अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेःकुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ॥३४॥
ततो राजा तयोः पादावभिवाद्य महात्मनोःप्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् ॥३५॥
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुराततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥३६॥
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यतेतावत्त्वं मानमुत्सृज्य गच्छ राजन्धनंजयम् ॥३७॥
काकुदीकं शुकं नाकमक्षिसंतर्जनं तथासंतानं नर्तनं घोरमास्यमोदकमष्टमम् ॥३८॥
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाःउन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः ॥३९॥
स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाःमूत्रयन्ते च सततं रुदन्ति च हसन्ति च ॥४०॥
असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनःत्वमेव भूयो जानासि कुन्तीपुत्रं धनंजयम् ॥४१॥
नरनारायणौ यौ तौ तावेवार्जुनकेशवौविजानीहि महाराज प्रवीरौ पुरुषर्षभौ ॥४२॥
यद्येतदेवं जानासि न च मामतिशङ्कसेआर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥४३॥
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदितिप्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ॥४४॥
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवितत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय ॥४५॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 94

0
Adhyaya 94Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0