Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान्अनयत्प्रेतराजस्य भवनं सायकैः शितैः ॥१॥
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगेवासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥२॥
तान्निवार्य शरौघेण शक्रसूनुर्महारथःसुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥३॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षयेव्यद्रवन्त रणे राजन्भये जाते महारथाः ॥४॥
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिषगजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥५॥
अपरे तुद्यमानास्तु वाजिनागरथा रणात्त्वरया परया युक्ताः प्राद्रवन्त विशां पते ॥६॥
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणेनिरपेक्षा व्यधावन्त तेन तेन स्म भारत ॥७॥
वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणातथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥८॥
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तवपुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् ॥९॥
सर्वोद्योगेन महता धनंजयमुपाद्रवत्त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते ॥१०॥
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ॥११॥
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताःप्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः ॥१२॥
जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनःहाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥१३॥
ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम्छादयामास समरे शरैः संनतपर्वभिः ॥१४॥
एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सहअयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥१५॥
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैःअतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥१६॥
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैःपुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ॥१७॥
भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम्विद्ध्वानदन्महानादं शार्दूल इव कानने ॥१८॥
आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैःचित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् ॥१९॥
समागतौ तौ तु रणे महामात्रौ व्यरोचताम्यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥२०॥
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैःननाद बलवन्नादं सौभद्रः परवीरहा ॥२१॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथःआरुरोह रथं तूर्णं दुर्मुखस्य विशां पते ॥२२॥
द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिःसारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥२३॥
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखेअपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥२४॥
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम्व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥२५॥
ससंभ्रमो महाराज संशयं परमं गतःअवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमःआरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ॥२६॥
सात्यकिः कृतवर्माणं वारयित्वा महारथःशरैर्बहुविधै राजन्नाससाद पितामहम् ॥२७॥
स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिःननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ॥२८॥
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहःहेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥२९॥
तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम्ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः ॥३०॥
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणान्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ॥३१॥
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम्वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥३२॥
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवेअभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥३३॥
तामापतन्तीं सहसा द्विधा चिच्छेद भारतक्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ॥३४॥
छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैःआजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ॥३५॥
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वजपरिवव्रू रणे भीष्मं माधवत्राणकारणात् ॥३६॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥३७॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 100

0
Adhyaya 100Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0