Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
युध्यतामेव तेषां तु भास्करेऽस्तमुपागतेसंध्या समभवद्घोरा नापश्याम ततो रणम् ॥१॥
ततो युधिष्ठिरो राजा संध्यां संदृश्य भारतवध्यमानं बलं चापि भीष्मेणामित्रघातिना ॥२॥
मुक्तशस्त्रं परावृत्तं पलायनपरायणम्भीष्मं च युधि संरब्धमनुयान्तं महारथान् ॥३॥
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् ॥४॥
ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरःतथैव तव सैन्यानामवहारो ह्यभूत्तदा ॥५॥
ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाःन्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः ॥६॥
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाःनालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः ॥७॥
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैःपूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥८॥
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततःततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥९॥
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सहसृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥१०॥
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाःमन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥११॥
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृपवासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह ॥१२॥
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम्गजं नलवनानीव विमृद्नन्तं बलं मम ॥१३॥
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम्लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥१४॥
यथा घोरो महानागस्तक्षको वै विषोल्बणःतथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् ॥१५॥
गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान्शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥१६॥
वरुणः पाशभृद्वापि सगदो वा धनेश्वरःन तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ॥१७॥
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरेआत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥१८॥
वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम्न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा ॥१९॥
यथा प्रज्वलितं वह्निं पतंगः समभिद्रवन्एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् ॥२०॥
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमीभ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः ॥२१॥
मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताःपरिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥२२॥
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥२३॥
यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशवस्वधर्मस्याविरोधेन तदुदाहर केशव ॥२४॥
एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥२५॥
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगरयस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः ॥२६॥
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौमाद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ ॥२७॥
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डवत्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे ॥२८॥
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम्पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥२९॥
यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डवहन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥३०॥
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगेविमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् ॥३१॥
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयःमदर्था भवदर्था ये ये मदीयास्तवैव ते ॥३२॥
तव भ्राता मम सखा संबन्धी शिष्य एव चमांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते ॥३३॥
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्एष नः समयस्तात तारयेम परस्परम्स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् ॥३४॥
प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतःघातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ ॥३५॥
परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतःअनुज्ञातं तु पार्थेन मया कार्यं न संशयः ॥३६॥
अथ वा फल्गुनस्यैष भारः परिमितो रणेनिहनिष्यति संग्रामे भीष्मं परपुरंजयम् ॥३७॥
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतःत्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैःनिहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप ॥३८॥
विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितःभीष्मः शांतनवो नूनं कर्तव्यं नावबुध्यते ॥३९॥
युधिष्ठिर उवाच
एवमेतन्महाबाहो यथा वदसि माधवसर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे ॥४०॥
नियतं समवाप्स्यामि सर्वमेव यथेप्सितम्यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः ॥४१॥
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वरत्वया नाथेन गोविन्द किमु भीष्मं महाहवे ॥४२॥
न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात्अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव ॥४३॥
समयस्तु कृतः कश्चिद्भीष्मेण मम माधवमन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचनदुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो ॥४४॥
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधवतस्माद्देवव्रतं भूयो वधोपायार्थमात्मनःभवता सहिताः सर्वे पृच्छामो मधुसूदन ॥४५॥
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम्रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् ॥४६॥
स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दनयथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥४७॥
स नो जयस्य दाता च मन्त्रस्य च धृतव्रतःबालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥४८॥
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधवपितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् ॥४९॥
संजय उवाच
ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम्रोचते मे महाबाहो सततं तव भाषितम् ॥५०॥
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्गम्यतां स वधोपायं प्रष्टुं सागरगासुतःवक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः ॥५१॥
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधवस नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् ॥५२॥
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वजजग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान्विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ॥५३॥
प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरेपूजयन्तो महाराज पाण्डवा भरतर्षभप्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः ॥५४॥
तानुवाच महाबाहुर्भीष्मः कुरुपितामहःस्वागतं तव वार्ष्णेय स्वागतं ते धनंजयस्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ॥५५॥
किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम्सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् ॥५६॥
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनःउवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः ॥५७॥
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहिप्रजानां संक्षयो न स्यात्कथं तन्मे वदाभिभो ॥५८॥
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनःभवन्तं समरे राजन्विषहेम कथं वयम् ॥५९॥
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामहमण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे ॥६०॥
नाददानं संदधानं विकर्षन्तं धनुर्न चपश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् ॥६१॥
नराश्वरथनागानां हन्तारं परवीरहन्क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ ॥६२॥
वर्षता शरवर्षाणि महान्ति पुरुषोत्तमक्षयं नीता हि पृतना भवता महती मम ॥६३॥
यथा युधि जयेयं त्वां यथा राज्यं भवेन्ममभवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह ॥६४॥
ततोऽब्रवीच्छांतनवः पाण्डवान्पाण्डुपूर्वजन कथंचन कौन्तेय मयि जीवति संयुगेयुष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः ॥६५॥
निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान्क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम्अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ॥६६॥
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम्हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥६७॥
युधिष्ठिर उवाच
ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहिभवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् ॥६८॥
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथान भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥६९॥
भीष्म उवाच
सत्यमेतन्महाबाहो यथा वदसि पाण्डवनाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः ॥७०॥
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकःन्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः ॥७१॥
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजेद्रवमाणे च भीते च तवास्मीति च वादिनि ॥७२॥
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रकेअप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम ॥७३॥
इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम्अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथंचन ॥७४॥
य एष द्रौपदो राजंस्तव सैन्ये महारथःशिखण्डी समराकाङ्क्षी शूरश्च समितिंजयः ॥७५॥
यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतःजानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥७६॥
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम्मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः ॥७७॥
अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतःन प्रहर्तुमभीप्सामि गृहीतेषुं कथंचन ॥७८॥
तदन्तरं समासाद्य पाण्डवो मां धनंजयःशरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥७९॥
न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम्ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनंजयात् ॥८०॥
एष तस्मात्पुरोधाय कंचिदन्यं ममाग्रतःमां पातयतु बीभत्सुरेवं ते विजयो भवेत् ॥८१॥
एतत्कुरुष्व कौन्तेय यथोक्तं वचनं ममततो जेष्यसि संग्रामे धार्तराष्ट्रान्समागतान् ॥८२॥
संजय उवाच
तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रतिअभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥८३॥
तथोक्तवति गाङ्गेये परलोकाय दीक्षितेअर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् ॥८४॥
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमतापितामहेन संग्रामे कथं योत्स्यामि माधव ॥८५॥
क्रीडता हि मया बाल्ये वासुदेव महामनाःपांसुरूषितगात्रेण महात्मा परुषीकृतः ॥८६॥
यस्याहमधिरुह्याङ्कं बालः किल गदाग्रजतातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥८७॥
नाहं तातस्तव पितुस्तातोऽस्मि तव भारतइति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥८८॥
कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मनाजयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥८९॥
श्रीकृष्ण उवाच
प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगेक्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥९०॥
पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम्नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥९१॥
दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य तेहन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा ॥९२॥
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम्त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् ॥९३॥
जहि भीष्मं महाबाहो शृणु चेदं वचो ममयथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥९४॥
ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम्आततायिनमामन्त्र्य हन्याद्घातकमागतम् ॥९५॥
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनंजययोद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥९६॥
अर्जुन उवाच
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम्दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥९७॥
ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम्गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥९८॥
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैःशिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु ॥९९॥
श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम्कन्या ह्येषा पुरा जाता पुरुषः समपद्यत ॥१००॥
संजय उवाच
इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाःशयनानि यथास्वानि भेजिरे पुरुषर्षभाः ॥१०१॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 103

0
Adhyaya 103Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0