Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
अभिमन्युर्महाराज तव पुत्रमयोधयत्महत्या सेनया युक्तो भीष्महेतोः पराक्रमी ॥१॥
दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिःआजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥२॥
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम्प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥३॥
तामापतन्तीं सहसा घोररूपां विशां पतेद्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥४॥
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनःदुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥५॥
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरेदशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥६॥
तद्युद्धमभवद्घोरं चित्ररूपं च भारतईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् ॥७॥
भीष्मस्य निधनार्थाय पार्थस्य विजयाय चयुयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ ॥८॥
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुंगवःआजघानोरसि क्रुद्धो नाराचेन परंतपः ॥९॥
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारतअताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥१०॥
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैःत्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥११॥
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतःद्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥१२॥
पौरवो धृष्टकेतुं च शरैरासाद्य संयुगेबहुधा दारयां चक्रे महेष्वासं महारथम् ॥१३॥
तथैव पौरवं युद्धे धृष्टकेतुर्महारथःत्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ॥१४॥
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथःननाद बलवन्नादं विव्याध दशभिः शरैः ॥१५॥
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैःआजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥१६॥
तौ तु तत्र महेष्वासौ महामात्रौ महारथौमहता शरवर्षेण परस्परमवर्षताम् ॥१७॥
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारतविरथावसियुद्धाय संगतौ तौ महारथौ ॥१८॥
आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृतेतारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ॥१९॥
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौवाशितासंगमे यत्तौ सिंहाविव महावने ॥२०॥
मण्डलानि विचित्राणि गतप्रत्यागतानि चचेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥२१॥
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिनाताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥२२॥
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम्आजघान शिताग्रेण जत्रुदेशे महासिना ॥२३॥
तावन्योन्यं महाराज समासाद्य महाहवेअन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥२४॥
ततः स्वरथमारोप्य पौरवं तनयस्तवजयत्सेनो रथे राजन्नपोवाह रणाजिरात् ॥२५॥
धृष्टकेतुं च समरे माद्रीपुत्रः परंतपःअपोवाह रणे राजन्सहदेवः प्रतापवान् ॥२६॥
चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैःपुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ॥२७॥
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पतेदशभिर्दशभिश्चैव विव्याध निशितैः शरैः ॥२८॥
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम्आजघान रणे क्रुद्धः स च तं प्रत्यविध्यतभीष्मस्य समरे राजन्यशो मानं च वर्धयन् ॥२९॥
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत्आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैःपुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ॥३०॥
बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैःनाकम्पयत संग्रामे विव्याध च पुनः पुनः ॥३१॥
कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिःआजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ॥३२॥
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलःफाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ॥३३॥
तयोर्युद्धं समभवद्भीष्महेतोः परंतपसंरब्धयोर्महाराज समरे चित्रयोधिनोःयथा देवासुरे युद्धे मयवासवयोरभूत् ॥३४॥
भीमसेनो गजानीकं योधयन्बह्वशोभतयथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥३५॥
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाःनिपेतुरुर्व्यां सहिता नादयन्तो वसुंधराम् ॥३६॥
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाःविरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ॥३७॥
युधिष्ठिरो महेष्वासो मद्रराजानमाहवेमहत्या सेनया गुप्तं पीडयामास संगतः ॥३८॥
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम्पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥३९॥
विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिःनवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ॥४०॥
विराटश्च महाराज सैन्धवं वाहिनीमुखेत्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ॥४१॥
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौरेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥४२॥
द्रोणः पाञ्चालपुत्रेण समागम्य महारणेमहासमुदयं चक्रे शरैः संनतपर्वभिः ॥४३॥
ततो द्रोणो महाराज पार्षतस्य महद्धनुःछित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥४४॥
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहाद्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥४५॥
ताञ्शराञ्शरसंघैस्तु संनिवार्य महारथःद्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥४६॥
तस्य क्रुद्धो महाराज पार्षतः परवीरहाद्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥४७॥
तामापतन्तीं सहसा हेमपट्टविभूषिताम्शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥४८॥
सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैःचूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥४९॥
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनःद्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥५०॥
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारतपार्षतं च महेष्वासं पीडयामास संयुगे ॥५१॥
एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत्भीष्मं प्रति महाराज घोररूपं भयानकम् ॥५२॥
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैःअभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ॥५३॥
प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान्त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥५४॥
तमापतन्तं सहसा महेन्द्रगजसंनिभम्परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ॥५५॥
ततो गजगतो राजा भगदत्तः प्रतापवान्अर्जुनं शरवर्षेण वारयामास संयुगे ॥५६॥
अर्जुनस्तु रणे नागमायान्तं रजतोपमम्विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥५७॥
शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत्भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥५८॥
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वजप्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥५९॥
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम्शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ॥६०॥
ततस्ते तावकाः शूराः पाण्डवं रभसं रणेसर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥६१॥
नानाविधान्यनीकानि पुत्राणां ते जनाधिपअर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥६२॥
शिखण्डी तु समासाद्य भरतानां पितामहम्इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥६३॥
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान्न्यवारयत सैन्यं च पाण्डवानां महारथः ॥६४॥
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनःशरसंघमहाज्वालः क्षत्रियान्समरेऽदहत् ॥६५॥
यथा हि सुमहानग्निः कक्षे चरति सानिलःतथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥६६॥
सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिःनादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ॥६७॥
पातयन्रथिनो राजन्गजांश्च सह सादिभिःमुण्डतालवनानीव चकार स रथव्रजान् ॥६८॥
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगेचकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ॥६९॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेःनिशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥७०॥
अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वरनासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥७१॥
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैःवातायमानान्पश्याम ह्रियमाणान्विशां पते ॥७२॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दशमहारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥७३॥
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाःसंग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराःजग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ॥७४॥
न तत्रासीन्महाराज सोमकानां महारथःयः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ॥७५॥
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रतिनीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ॥७६॥
न कश्चिदेनं समरे प्रत्युद्याति महारथःऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम्शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥७७॥
शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभदशभिर्दशभिर्बाणैराजघान महाहवे ॥७८॥
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषाअवैक्षत कटाक्षेण निर्दहन्निव भारत ॥७९॥
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतःन जघान रणे भीष्मः स च तं नावबुद्धवान् ॥८०॥
अर्जुनस्तु महाराज शिखण्डिनमभाषतअभित्वरस्व त्वरितो जहि चैनं पितामहम् ॥८१॥
किं ते विवक्षया वीर जहि भीष्मं महारथम्न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ॥८२॥
यः शक्तः समरे भीष्मं योधयेत पितामहम्ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥८३॥
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभशरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥८४॥
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तवअर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥८५॥
तथैव च चमूं सर्वां पाण्डवानां महारथःअप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ॥८६॥
तथैव पाण्डवा राजन्सैन्येन महता वृताःभीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ॥८७॥
स समन्तात्परिवृतो भारतो भरतर्षभनिर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ॥८८॥
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्अयोधयत यत्पार्थं जुगोप च यतव्रतम् ॥८९॥
कर्मणा तेन समरे तव पुत्रस्य धन्विनःदुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥९०॥
यदेकः समरे पार्थान्सानुगान्समयोधयत्न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥९१॥
दुःशासनेन समरे रथिनो विरथीकृताःसादिनश्च महाराज दन्तिनश्च महाबलाः ॥९२॥
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतलेशरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥९३॥
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणःतथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ॥९४॥
तं भारतमहामात्रं पाण्डवानां महारथःजेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथंचनऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ॥९५॥
स हि तं समरे राजन्विजित्य विजयोऽर्जुनःभीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ॥९६॥
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयःपुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटःअर्जुनं च रणे राजन्योधयन्स व्यराजत ॥९७॥
शिखण्डी तु रणे राजन्विव्याधैव पितामहम्शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥९८॥
न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वरस्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥९९॥
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छतितथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥१००॥
तं क्षत्रिया महाराज ददृशुर्घोरमाहवेभीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ॥१०१॥
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिषअभिद्रवत संग्रामे फल्गुनं सर्वतो रथैः ॥१०२॥
भीष्मो वः समरे सर्वान्पालयिष्यति धर्मवित्ते भयं सुमहत्त्यक्त्वा पाण्डवान्प्रतियुध्यत ॥१०३॥
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन्सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ॥१०४॥
त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम्किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाःतस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ॥१०५॥
अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम्सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ॥१०६॥
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनःअर्जुनं प्रति संयत्ता बलवन्तो महारथाः ॥१०७॥
ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सहअभिपेतुर्निषादाश्च सौवीराश्च महारणे ॥१०८॥
बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाःअभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥१०९॥
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सहअभिपेतू रणे पार्थं पतंगा इव पावकम् ॥११०॥
स तान्सर्वान्सहानीकान्महाराज महारथान्दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनंजयः ॥१११॥
स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलःशरप्रतापैर्बीभत्सुः पतंगानिव पावकः ॥११२॥
तस्य बाणसहस्राणि सृजतो दृढधन्विनःदीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ॥११३॥
ते शरार्ता महाराज विप्रकीर्णरथध्वजाःनाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ॥११४॥
सध्वजा रथिनः पेतुर्हयारोहा हयैः सहगजाः सह गजारोहैः किरीटिशरताडिताः ॥११५॥
ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुंधराविद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ॥११६॥
अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम्दुःशासनाय समरे प्रेषयामास सायकान् ॥११७॥
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाःधरणीं विविशुः सर्वे वल्मीकमिव पन्नगाःहयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥११८॥
विविंशतिं च विंशत्या विरथं कृतवान्प्रभोआजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥११९॥
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैःचकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥१२०॥
एवं ते विरथाः पञ्च कृपः शल्यश्च मारिषदुःशासनो विकर्णश्च तथैव च विविंशतिःसंप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ॥१२१॥
पूर्वाह्णे तु तथा राजन्पराजित्य महारथान्प्रजज्वाल रणे पार्थो विधूम इव पावकः ॥१२२॥
तथैव शरवर्षेण भास्करो रश्मिवानिवअन्यानपि महाराज पातयामास पार्थिवान् ॥१२३॥
पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान्प्रावर्तयत संग्रामे शोणितोदां महानदीम्मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥१२४॥
गजाश्च रथसंघाश्च बहुधा रथिभिर्हताःरथाश्च निहता नागैर्नागा हयपदातिभिः ॥१२५॥
अन्तरा छिध्यमानानि शरीराणि शिरांसि चनिपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥१२६॥
छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिःपतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥१२७॥
रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताःपादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ॥१२८॥
गजाश्वरथसंघाश्च परिपेतुः समन्ततःविशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ॥१२९॥
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम्छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥१३०॥
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सहप्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ॥१३१॥
ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताःदृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ॥१३२॥
काञ्चनानि च दामानि पताकाश्च महाधनाःधूमायमाना दृश्यन्ते सहसा मारुतेरिताः ॥१३३॥
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाःविनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशःसपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥१३४॥
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराःसमन्ततो व्यदृश्यन्त पतिता धरणीतले ॥१३५॥
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन्अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥१३६॥
तं शिखण्डी रणे यत्तमभ्यधावत दंशितःसंजहार ततो भीष्मस्तदस्त्रं पावकोपमम् ॥१३७॥
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनःनिजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥१३८॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 112

0
Adhyaya 112Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0