Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
धृतराष्ट्र उवाच
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजयविष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ॥१॥
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनशाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय ॥२॥
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव चब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥३॥
संजय उवाच
राजन्सुबहवो द्वीपा यैरिदं संततं जगत्सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ॥४॥
अष्टादश सहस्राणि योजनानां विशां पतेषट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥५॥
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतःनानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥६॥
नैकधातुविचित्रैश्च पर्वतैरुपशोभितःसिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥७॥
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिवशृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥८॥
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिपविष्कम्भेण महाराज सागरोऽपि विभागशःक्षीरोदो भरतश्रेष्ठ येन संपरिवारितः ॥९॥
तत्र पुण्या जनपदा न तत्र म्रियते जनःकुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥१०॥
शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभउक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ॥११॥
धृतराष्ट्र उवाच
शाकद्वीपस्य संक्षेपो यथावदिह संजयउक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ॥१२॥
संजय उवाच
तथैव पर्वता राजन्सप्तात्र मणिभूषिताःरत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणुअतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ॥१३॥
देवर्षिगन्धर्वयुतः परमो मेरुरुच्यतेप्रागायतो महाराज मलयो नाम पर्वतःयतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ॥१४॥
ततः परेण कौरव्य जलधारो महागिरिःयत्र नित्यमुपादत्ते वासवः परमं जलम्यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ॥१५॥
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितःरेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥१६॥
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिःयतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥१७॥
धृतराष्ट्र उवाच
सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वयाप्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ॥१८॥
संजय उवाच
सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दनगौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ॥१९॥
श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारतआस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ॥२०॥
ततः परं कौरवेन्द्र दुर्गशैलो महोदयःकेसरी केसरयुतो यतो वातः प्रवायति ॥२१॥
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशःवर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः ॥२२॥
महामेरुर्महाकाशो जलदः कुमुदोत्तरःजलधारात्परो राजन्सुकुमार इति स्मृतः ॥२३॥
रैवतस्य तु कौमारः श्यामस्य तु मणीचकःकेसरस्याथ मोदाकी परेण तु महापुमान् ॥२४॥
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव चजम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ॥२५॥
शाको नाम महाराज तस्य द्वीपस्य मध्यगःतत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ॥२६॥
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि चधार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥२७॥
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यतेदीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥२८॥
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाःनद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ॥२९॥
सुकुमारी कुमारी च सीता कावेरका तथामहानदी च कौरव्य तथा मणिजला नदीइक्षुवर्धनिका चैव तथा भरतसत्तम ॥३०॥
ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वहसहस्राणां शतान्येव यतो वर्षति वासवः ॥३१॥
न तासां नामधेयानि परिमाणं तथैव चशक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ॥३२॥
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताःमगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥३३॥
मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृपमशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥३४॥
मानसेषु महाराज वैश्याः कर्मोपजीविनःसर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताःशूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ॥३५॥
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाःस्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् ॥३६॥
एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम्एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ॥३७॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 12

0
Adhyaya 12Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0