Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसिन तु दुर्योधने दोषमिममासक्तुमर्हसि ॥१॥
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरःएनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥२॥
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥३॥
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षयाअनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ॥४॥
हयानां च गजानां च शूराणां चामितौजसाम्प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥५॥
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाःदिष्टमेतत्पुरा नूनमेवंभावि नराधिप ॥६॥
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमतेयस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ॥७॥
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव चपरचित्तस्य विज्ञानमतीतानागतस्य च ॥८॥
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदाशस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥९॥
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम्भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ॥१०॥
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतःदुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥११॥
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणःअनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥१२॥
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितःपाण्डवानां ससैन्यानां कुरूणां च समागमः ॥१३॥
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥१४॥
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ॥१५॥
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिःशिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥१६॥
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाःसर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ॥१७॥
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम्मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥१८॥
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ॥१९॥
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितःयथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥२०॥
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ॥२१॥
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारतहयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ॥२२॥
गजानां बृंहतां चैव योधानां चाभिगर्जताम्क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥२३॥
उदतिष्ठन्महाराज सर्वं युक्तमशेषतःसूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोःतव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ॥२४॥
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताःविभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥२५॥
रथानीकान्यदृश्यन्त नगराणीव भूरिशःअतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥२६॥
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैःयोधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ॥२७॥
गजा रथाः पदाताश्च तुरगाश्च विशां पतेव्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥२८॥
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताःस्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥२९॥
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाःअर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ॥३०॥
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विवसंनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ॥३१॥
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनःऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः ॥३२॥
शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथःविन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ॥३३॥
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवःबृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः ॥३४॥
दशैते पुरुषव्याघ्राः शूराः परिघबाहवःअक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥३५॥
एते चान्ये च बहवो दुर्योधनवशानुगाःराजानो राजपुत्राश्च नीतिमन्तो महाबलाः ॥३६॥
संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताःबद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ॥३७॥
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताःसमृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥३८॥
एकादशी धार्तराष्ट्री कौरवाणां महाचमूःअग्रतः सर्वसैन्यानां यत्र शांतनवोऽग्रणीः ॥३९॥
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम्अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥४०॥
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम्श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥४१॥
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाःसृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ॥४२॥
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथाधृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥४३॥
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारतपाण्डवानां तथा सप्त महापुरुषपालिताः ॥४४॥
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौयुगान्ते समुपेतौ द्वौ दृश्येते सागराविव ॥४५॥
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतःअनीकानां समेतानां समवायस्तथाविधः ॥४६॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 16

0
Adhyaya 16Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0