Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत्तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥१॥
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यतदीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः ॥२॥
द्विधाभूत इवादित्य उदये प्रत्यदृश्यतज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ॥३॥
ववाशिरे च दीप्तायां दिशि गोमायुवायसाःलिप्समानाः शरीराणि मांसशोणितभोजनाः ॥४॥
अहन्यहनि पार्थानां वृद्धः कुरुपितामहःभरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥५॥
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौयुयुधाते तवार्थाय यथा स समयः कृतः ॥६॥
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तवसमानीय महीपालानिदं वचनमब्रवीत् ॥७॥
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ॥८॥
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतःसंभावयत चात्मानमव्यग्रमनसो युधि ॥९॥
नाभागो हि ययातिश्च मान्धाता नहुषो नृगःसंसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥१०॥
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहेयदाजौ निधनं याति सोऽस्य धर्मः सनातनः ॥११॥
एवमुक्ता महीपाला भीष्मेण भरतर्षभनिर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥१२॥
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिःन्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥१३॥
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाःनिर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥१४॥
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिःतान्यनीकान्यशोभन्त रथैरथ पदातिभिः ॥१५॥
भेरीपणवशब्दैश्च पटहानां च निस्वनैःरथनेमिनिनादैश्च बभूवाकुलिता मही ॥१६॥
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाःभ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ॥१७॥
तालेन महता भीष्मः पञ्चतारेण केतुनाविमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः ॥१८॥
ये त्वदीया महेष्वासा राजानो भरतर्षभअवर्तन्त यथादेशं राजञ्शांतनवस्य ते ॥१९॥
स तु गोवासनः शैब्यः सहितः सर्वराजभिःययौ मातङ्गराजेन राजार्हेण पताकिनापद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥२०॥
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनःश्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ॥२१॥
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथःएते सप्त महेष्वासा द्रोणपुत्रपुरोगमाःस्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ॥२२॥
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान्भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः ॥२३॥
जाम्बूनदमयी वेदिः कमण्डलुविभूषिताकेतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ॥२४॥
अनेकशतसाहस्रमनीकमनुकर्षतःमहान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ॥२५॥
तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणःक्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ॥२६॥
स्यन्दनेन महार्हेण केतुना वृषभेण चप्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ॥२७॥
तदङ्गपतिना गुप्तं कृपेण च महात्मनाशारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् ॥२८॥
अनीकप्रमुखे तिष्ठन्वराहेण महायशाःशुशुभे केतुमुख्येन राजतेन जयद्रथः ॥२९॥
शतं रथसहस्राणां तस्यासन्वशवर्तिनःअष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥३०॥
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम्अनन्तरथनागाश्वमशोभत महद्बलम् ॥३१॥
षष्ट्या रथसहस्रैस्तु नागानामयुतेन चपतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥३२॥
तस्य पर्वतसंकाशा व्यरोचन्त महागजाःयन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ॥३३॥
शुशुभे केतुमुख्येन पादपेन कलिङ्गपःश्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥३४॥
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥३५॥
तेजसा दीप्यमानस्तु वारणोत्तममास्थितःभगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥३६॥
गजस्कन्धगतावास्तां भगदत्तेन संमितौविन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥३७॥
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान्वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ॥३८॥
द्रोणेन विहितो राजन्राज्ञा शांतनवेन चतथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ॥३९॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 17

0
Adhyaya 17Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0